________________
जिनपूजाधिकारः २
उक्तो धर्माधर्माविति प्रथमाधिकारः, अथ द्वितीयो जिनपूजेति व्याख्यायते, अस्य चायमभिसम्बन्ध:-प्रथमाधिकारे धर्माधर्मों सप्रपञ्चावभिहिती, तत्र चाधर्मं परित्यज्य धर्मे यत्नो विधेय इत्युक्तं, धर्मार्थिनां पुनर्देवतापूजनं प्रथममेवानुष्ठानम्, अतोऽत्राधिकारे पूजाविधिरुच्यते, इत्यनेन सम्बन्धेन समायातोऽयमधिकारो व्याख्यायते, तत्र द्रव्यभावभेदेन द्वैविध्यम् पूजाया उपवर्णयन् श्लोकमेकमाह
द्रव्यतो भावतश्चैव, द्विविधं देवतार्चनम्। द्रव्यतो जिनवेश्मादि, स्तुतिस्तोत्रादि भावतः ॥४५॥
द्रव्यतो द्रव्यमाश्रित्य, भावतो भावमाश्रित्य, च: समुच्चये, एवो ऽवधारणे, स च भिन्नक्रमो द्विविधमेवेत्यत्र दृष्टव्यं, ततो द्विविधमेव द्विप्रकारमेव देवतार्चनं देवपूजनं ततो द्रव्यतो द्रव्यमाश्रित्य जिनवेश्मादि जिनमन्दिरादि, आदिशब्दाजिनबिम्बप्रतिष्ठादिपरिग्रह: उक्तं च
जिणभवणबिम्बठावण-जत्तापूयाइ सुत्तओ विहिणा। दव्वत्थओत्ति नेयं, भावत्थयकारणत्तेण ॥१॥ विहिणाणुट्ठाणमिणं ति, एवमेयं सया करेंताणं । होइ चरणस्स हेऊ, नो इहलोगादविक्खाए ॥२॥ [पञ्चाशकप्र.६/३-४]
तथा स्तुतिस्तोत्रादि भावतो भावमाश्रित्य भावपूजेत्यर्थः । तत्र स्तुतय एकश्लोकाद्या यावदष्टौ, तत: परं स्तोत्राणि भण्यन्ते, आदिशब्दात् पौषध-सामायिक-स्वाध्यायादिपरिग्रह: । साधूनाश्रित्य पुन: सकलमपि यत्यनुष्ठानं भावस्तव एवेति श्लोकार्थः ॥४५॥ अथ द्विविधस्यापि पूजनस्याधिकारिणो निरूपयन्नाह
अस्याधिकारिणो ज्ञेया, द्विविधस्याप्यगारिणः । प्रायो भावस्तवे चैव, साधूनामधिकारिता ॥४६॥
अस्य एतस्य तस्य देवतार्चनस्य अधिकारिणो योग्यतावन्तो ज्ञेया ज्ञातव्या द्विविधस्यापि द्रव्यभावभेदेन द्विप्रकारस्याप्यगारिणो गृहस्था:, तथा प्रायो बाहुल्येन भावस्तवे चैव भावार्चन एव, प्रायोग्रहणात्संयमाबाधया गुणमपेक्ष्य कदाचिद् द्रव्यस्तवेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org