________________
२८
आचार्यश्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
तेन राजन् ! मया प्रोक्त-'मल्पा: पातककारिणः । स्वबुद्ध्या धार्मिका: सर्वे, वसन्ति नगरे तव।७५। ततोऽसौ रञ्जितो राजा, श्रेणिको मगधाधिपः । श्लाघां कुर्वन् जगादेदं, प्रतीत्य श्रावको तकौ ॥७६॥ अहो वां विवेकस्य, अहो वां जल्पितस्य च । अहो वां धर्मदाढचस्य, यदि मूल्यं जगत्त्रयी, ॥७७॥ विसर्जितौ नरेन्द्रेण, प्रियङ्करशुभङ्करौ । श्लाघ्यमानौ च लोकेन, सादरं स्वगृहं गतौ ॥७८॥ अहो अभय! ते बुद्धिः, सर्वेषामुपरि स्थिता । नाम्नैव मन्त्रिण: शेषा-स्त्वमाद्यो मन्त्रदर्शिनाम् ।।७९।। अभयाय निजं दत्त्वा, देहस्यांशुकभूषणम् । विसर्जितसभो राजा, जगाम निजमन्दिरम् ॥८०॥ कृतस्नानो विशुद्धात्मा, संवीतशुचिशाटक: । शान्त: कृतोत्तरासङ्गो, धर्मधीधर्ममूर्तिकः ॥८॥ मालतीजात्यपत्रादि-सान्द्रपुष्पैः सुगन्धिभिः । पूजयित्वा विधानेन, श्रेणिकः श्रीजिनेश्वरम् ॥८२॥ जात्यकाञ्चननिर्मित-यवानां साष्टकं शतम् । प्रत्यहं कारयित्वा च अष्टमङ्गलहेतवे ।।८३॥ मङ्गलानि पुरो ह्यष्ट, विलेख्य विधिपूर्वकम् । रोमाञ्चाञ्चितसर्वाङ्गो, योगमुद्रापुरस्सरम् ।।८४|| देवेन्द्रादिस्तवै: सारैः, स्तुत्वा भुवनबान्धवम् । अष्टस्वङ्गेषु चैकैकं, नमस्कारपुरस्सरम् ॥८५॥ पुष्पं दत्त्वा ततो भुङ्क्ते, निर्मलीकृतदर्शन: । एवं च कुर्वतो राज्यं, तस्य गच्छन्ति वासरा: ॥८६।। तदहो धार्मिका: स्तोका:, शिष्टाचारपरा नरा: । अन्यायकारिणो लोका, भूयांसो धर्मवर्जिताः ॥८७॥ सर्वदा सर्वकल्याण-कारके भवतारके । यतध्वं भो जना धर्मे, सामग्री दुर्लभा पुनः ॥८८॥ श्रीमदभयदेवाख्य-सूरिपादान्तवासिना। सूरिणावर्धमानेन, धर्मरत्नकरण्डके॥८९॥ धर्माधर्मकृताह्वाने, धर्माधर्मविवेचके । प्रस्तावे प्रथमे वृत्तिः, सङ्घपादेव चर्चिता ॥९०॥
इति प्रथमोऽधिकारः
१°मल्पे- BJमु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org