________________
अधिकार १ / श्लोक ४७-७४ / प्रासादद्वय कथा
ર૭
सत्यापित: प्रवादोऽयं, जनेनैवं प्रजल्पता । जगदात्मनि सन्तुष्टं, सर्व: स्वं चारु मन्यते ॥४७॥ बहिष्टान्मस्तके मध्ये, पार्श्वत: पृष्ठतोऽपि च । सर्वतो नागरो लोको, धर्मागारमुपाश्रितः ॥४८॥ शून्यं पापगृहं सर्वं, न कोऽपि क्वापि दृश्यते । खरांशुर्मस्तके रूढ-स्तीव्रतेजा: सुदुस्सहः ॥४९॥ नरेन्द्रश्च समासन:, प्रधानपरिवारित: । जनं च जनजल्पं च, पश्यति च शृणोति च ॥५०॥ अत्रान्तरे च पापीय:-प्रासादे कालिमालये। द्वावेव पुरुषौ राज्ञा, विशन्ताववलोकितौ ॥५१॥ विस्मयापन्नचित्तेन, अभयोऽभाणि भूभृता। कावेतौ पुरुषौ भद्र!, पापप्रासादमागतौ ॥५२॥ तेनोचे श्रावकावेतौ प्रियङ्ककरशुभकरौ। कारणं तत्र तद्याने, समाकार्य विचार्यताम् ॥५३॥ ततो राज्ञा प्रतीहार-मुखेनाकारितावुभौ । आगत्य प्रणतौ राजे, निषण्णावुचितासने ॥५४॥ राज्ञा पृष्टौ यथा जैन-शासने श्रावको युवाम् । देवश्च युवयो: श्रीमान्, समग्रैश्वर्यसंयुतः ॥५५॥ सर्वज्ञः सर्वदर्शी च सर्वदेवनमस्कृत: । गुरव: साधवश्चैव, प्राप्यन्ते नाल्पपुण्यकैः ॥५६॥ . सद्विवेक: श्रिया सार्धं, विनयो विद्यया सह । आत्मगुणैरनुत्सेको, युष्मास्वेव विलोक्यते ॥५७॥ भो भद्रौ ! शेषलोकेभ्यो, गुणित्वं वां समर्गलम् । तत: केन निमित्तेन, पापप्रासादमाश्रितौ? ॥५८|| तावूचतुर्महाराज! यन्न तुष्टिर्निजैर्गुणैः । क्रियाकाण्डुमपि स्वीयं, न तच्चेतसि वर्तते ॥५९॥ जगद्वन्धुर्जिनाधीशो, देवो नौ देवदेवता । क्षमावन्त: श्रुताधारा, गुरवश्च सुसाधवः ।।६०॥ श्रूयते तद्वचो नित्यं, क्रियते पर्युपासना । क्रियाकाले पुनः सर्वं, काकवासितसन्निभम् ॥६॥ जिनाज्ञा हृदयेऽस्माक-मनुष्ठानं सकल्मषम् । मोक्षाध्वनिस्थितस्येदं, प्रस्थानं नरकाध्वनि ॥६२॥ ते शोच्या ये न जानन्ति, सर्वज्ञमतमुज्ज्वलम् । शोच्यानामपि ते शोच्या, ज्ञात्वा ये न प्रकुर्वते ॥६३।। आपादितचमत्कारा, इन्द्रजालिकसन्निभा: । बहवो विरलास्ते च, ये रञ्जितस्वमानसा: ॥६४॥ अन्त:शून्या बहि:सारा, नित्यशो भोजनप्रिया: । ध्वनिसाराश्च संसारे, बहवो मर्दलोपमा: ॥६५॥ अन्त:सद्वासनोपेता, बहिश्च बकवृत्तय: । वाचंयमा क्षमावन्तो, नि:स्पृहा विरला जना: ॥६६॥ सुधर्मादिमुनीन्द्राणां, मौनीन्द्रगुणधारिणाम् । जिनाज्ञायोगयुक्तानां, धर्मप्रासादयोग्यता ॥६७।। तेनात्र वयमारूढा, मूढा: सन्मार्गवर्त्मनि । कुकर्मकारका दत्त-सत्यङ्कारा भवाध्वनि ॥६८॥ जगादाथाभयो देव!, स्वदोषे यस्य दोषधी: । स धन्यो वन्दनीयश्च, स धार्मिकशिरोमणि: ॥६९॥ दोषबुद्धिः स्वदोषेषु, गुणबुद्धिर्गुणेषु च । दोषेभ्यस्ते विरज्यन्ते, प्रवर्तन्ते गुणेषु च ॥७॥ दोषा अपि गुणत्वेन, यैः प्रपन्ना नराधमैः । दोषेभ्यश्च कदा तेषाम्, विनिवृत्तिर्भविष्यति? ॥७१॥ दर्शने परदोषाणां, लोकानां लोचनद्वयम् । सहस्रगुणतां याति, हा हा मत्सरजृम्भितम् ॥७२॥ स्वदोषदर्शने द्वे तु, जात्यन्ध इव चक्षुषी । ये तु धर्मपरा लोका-स्ते स्वल्पा न तु भूरिश: ॥७३॥ यो हि यत्कुरुते कार्य, तदेतत्तस्य सुन्दरम् । आत्मसन्तुष्टमेवेदं, विचाररहितं जगत् ॥७४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org