________________
आचार्यश्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
स्वल्पशौचा अधर्मिष्ठा, 'अरण्यानीनिवासिनः । अविचारा न शस्यन्ते, नरा गड्डुरिका यथा ॥२०॥ अपरीक्षितकारित्वं, मृतानां देहमण्डनम् । बधिरेण समं मन्त्रो, जात्यन्धमुखमण्डनम् ॥२१॥ तत: परीक्षणाहेतोः, पुरमध्ये सितेतरम् । प्रासादद्वयमुत्तुङ्गं, कारयित्वा मनोहरम् ॥२२॥ परित: पटहेनाशु, श्रावयित्वाखिलं जनम् । यथा भो भूभृता धर्म्यः, प्रासाद: कारितो महान् ॥२३॥ द्वितीय: पापनामा च, तत्र य: कोऽपि धार्मिक: । धन॑ प्रासादमागत्य, स आरोहतु सत्वरम् ॥२४॥ पापो जनो द्वितीयं तु, प्रासादमुपगच्छतु । एतच्छ्रुत्वा जन: सर्वो, धावितो धर्ममन्दिरे ॥२५।। निरोद्धं शक्यते नैव, प्रतीहारशतैरपि । चक्रिण: कल्पपालाश्च, मत्स्यबन्धाश्च खट्टिका: ॥२६॥ वेश्या वागुरिका गोना, ये चान्ये पापकारिण: । प्रतीहारेण ते प्रोक्ता:, किं यूयमिह चागता:? ॥२७॥ मद्यमांसरसासक्ता जीवघातपरायणा: । अधर्मिष्ठा: कुकर्माणो, लोकनिन्द्याश्च सर्वदा ॥२८॥ जगाद चक्री चक्रं नो, धर्माङ्गं प्रथमं स्मृतम् । विचारय प्रतीहार!, कथ्यमानं वचो मम ॥२९॥ द्विजपाखण्डिदीनान्ध-पङ्गुभ्यस्तैलधारया । दत्तया किं न धर्मो न, इति सम्यग्विभाव्यताम् ॥३०॥ तडागे खन्यमाने तु, लेष्टवाकर्षणसम्भवम् । अर्थमात्रसमुत्थं वा, पुण्यं केन निवार्यते ? ॥३१॥ सौवासिनी द्विजेभ्यश्च, दक्षिणा या प्रदीयते । तदुत्थो धर्मसन्तान:, किमस्माकं न जायते ? ॥३२॥ ततो वयं सुधर्मिष्ठा, धर्मकर्मविचक्षणा: । धर्मप्रासादयोग्याश्च, मुधा वारयते भवान् ॥३३॥ अत्रान्तरे समायाता, सुनन्दवणिगङ्गजा । विटभोज्या महापापा, न वेश्या न कुलाङ्गना ॥३४|| जारघातितभर्तृका, निर्मर्यादा गतत्रपा । वर्जिता पितृवर्गेण, श्वशुरेणापि वर्जिता ॥३५।। उद्घाटमस्तका लोकै-हस्यमाना मुहुर्मुहुः । कुलङ्कुलमटन्ती च, सा कुलटेति विश्रुता ॥३६॥ अन्यायार्जितवित्तेन, तया यक्षस्य मन्दिरम् । कारितं तेन यक्षोऽपि, तन्नामा भुवि विश्रुतः ॥३७॥ कुलटायक्ष इत्येषा, ख्यातिर्यक्षस्य जृम्भते। किं कुर्वन्ति विगुप्यन्ते, देवा अपि कुसङ्गत:॥३८॥ प्रतीहारेण सा रुद्धा, निर्धर्मे! धर्ममन्दिरे । प्रवेशे कोऽधिकारस्ते, सावोचदिदमञ्जसा ॥३९॥ अहं धर्मवतां सीमा, यया यक्षस्य मन्दिरम् । कारितं निजवित्तेन, त्वमज्ञ इव लक्ष्यसे ॥४०॥ ततो मदनमञ्जुषा-नाम्नी वरविलासिनी । प्रतीहारनिरुद्धाऽसा-विदं वचनमब्रवीत् ॥४१॥ धर्मसौधे प्रविशन्त्या, निषेध: क्रियते कथम् ? । स्वल्पाक्षरैः प्रतीहार-स्तामवोचद्विलासिनीम् ।।४२।। स्वकर्म किं न जानासि ?, पापे ! पापगृहोचितम् । प्रतीहाप्रबोधाय, जगादेदं विलासिनी ॥४३।। त्रीन्वारान्प्रतिमासान्ते, कामसत्रं ददाम्यहम्। द्विजादिदुःस्थलोकानां, सुस्थत्वे किंनमेशुभम्? ॥४४॥ एवमन्येऽपि सर्वेऽपि, मत्स्यबन्धादयो नरा: । आत्मानं धार्मिकम्मन्या, धर्मसौधमुपागता: ॥४५॥ प्रतीहारोऽचिन्तयत्
सर्वस्यात्मा गुणवान्, सर्वः परदोषदर्शने कुशलः ।
सर्वस्य चास्ति वाच्यं, न चात्मदोषान् वदति कश्चित् ॥४६॥ १ अरण्यानी = भोटु त इति शब्दरलमहोदधौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org