________________
अधिकार १ / श्लोक ४०-४४ / धर्मप्रशंसा प्रासादद्वयकथा च
२५
धर्म: शोभनानुष्ठानं विजयी विजयवान् सर्वत्र सर्वलोके अधर्मो धर्मविपक्षो विजयवर्जितो जयरहित: । ततस्तस्मात्कारणादधर्मं परित्यज्य विमुच्य धर्मे यत्न आदरो विधीयतां क्रियतामिति ॥४४॥
स च सदनुष्ठानेन शिष्टसमाचारपालनेन च भवति । लोकाचेह बहवो महारम्भमहापरिग्रहासक्ताश्चौर्यपारदार्यप्रभृतिदुर्नयकारिणश्च, तथाप्यात्मानं धार्मिकाणां धुरि धारयन्ति, आत्मसन्तुष्टत्वाज्जगत इति एतदर्थप्रतिपादकश्च दृष्टान्तोऽयं, तद्यथा
प्रासादद्वयकथा
अस्तीह मगधो नाम, देशो देशशिरोमणिः । महेश्वरकृतावास:, स कैलास इवोन्नत: ॥१॥ यत्र नार्यश्च वाप्यश्च, निर्मला: सुपयोधराः । सुतेजस: सुवंशोत्था, मुक्ताश्च मुनयोऽपि च ॥२॥ पुरं राजगृहं तत्र, निवास: सर्वसम्पदाम् । विशालेनोच्चशालेन, परित: परिवेष्टितम् ।।३।। तत्रासीत् श्रेणिको राजा, स्वगुणै रञ्जितप्रजः । भाण्डागारादिसम्पूर्णः, सुप्रतापी परन्दम: ॥४॥ गृहीतहृदया तस्य, चेल्लणा नाम गेहिनी । रोहिणीव शशाङ्कस्य, विलसत्तारतारिका ॥५॥ तथाभयाभिधानश्च, मन्त्री पुत्रश्च सद्गुणः । बुद्धया सर्वातिशायिन्या, त्रिदशाचार्यसन्निभः ॥६॥ अथान्यदा समारूढः, प्रासादे मेदिनीपति: । परित: प्रेषयामास, दृष्टिं द्रष्टव्यदर्शन: ॥७॥ यत्र यत्र प्रयात्यस्य, दृष्टिदर्शनलोलुपा । पश्यति तत्र तत्रापि, लक्षश: कोटिशो जनान् ।।८।। तत: सकौतुको राजा, प्रासादादवतीर्य स: । सर्वत: पुरमालोक्य, सभामण्डपमागतः ।।९।। सामन्तमन्त्रिण: सर्वे, समायाताश्च तत्क्षणम् । सन्निषण्णा निजे स्थाने, तान् सन्मान्य ततो नृपः॥१०॥ लोकविस्मयकारीद-मकालजलदोपमम् । प्रोवाचि च नरेन्द्रेण, मन्त्रिणो मिलितान् प्रति ॥११॥ एतस्मिन्नगरे लोका, बहवो ये वसन्ति न: । किं पापा धार्मिका वेति, ममेदं कथ्यतां द्रुतम् ।।१२।। श्रुत्वेदं मन्त्रिणो बुद्धया, पर्यालोच्य परस्परम् । प्रोचुश्च बहव: पापा, वसन्त्यत्र पुरे प्रभो ! ॥१३॥ धार्मिका गणिता: केचि-च्छतांशादपि दुर्लभाः । कुकर्मकारिणां पुंसां, पर्यन्तोऽपि न लभ्यते ॥१४॥ तन्मन्त्रिभणितं वाक्यं, राज्ञोऽपि हृदि संस्थितम्। केवलं वक्ति नो किञ्चि-दभयो मन्त्रिणां वरः॥१५॥ अशृण्वन्निव तूष्णीक, आस्तेऽधोनमितेक्षण: । भणितो भूभृता मन्त्रि-नुत्तरं किं न दीयते ? ॥१६॥ स प्राह न विजानेऽहं, देवोत्तरमुदीरितुम् । अजानानस्य सर्वत्र, मौनं सर्वार्थसाधनम् ॥१७॥ यथैते तव जानन्ति, मन्त्रिण: कार्यनिश्चयम् । तथाहं न विजानामि, विभिन्ना मतयो नृणाम् ॥१८॥ अहं तु ननु जानामि, प्रभूता धार्मिका जना: । वसन्ति च स्वल्पा: पापा:, कुरु तात! परीक्षणम्॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org