________________
आचार्यश्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
भूयोऽपि धर्मं प्रशंसयन् श्लोकचतुष्टयमाह
सम्प्राप्य मानुषं जन्म, दुर्लभं भवकोटिभिः । व्यापारितं सदा धर्मे, यैस्ते शत्रनरोत्तमाः ॥४०॥ गच्छतां दुर्गसंसार-मार्गे पर्यन्तवर्जिते । धर्मसम्बलते पुंसां, दुःषमानि पदे पदे ॥४१॥ सीदन्त्यत्र न यैर्धर्म:, सम्यगासेवित: पुरा। साम्प्रतं न च कुर्वन्ति, तेषामग्रेऽपि नो सुखम् ॥४२॥ तदेष भगवान् धर्मो, दुर्गतिगतधारकः । सद्भिः सदैव कर्तव्यः, सर्वसौख्यनिबन्धनम् ॥४३॥
सम्प्राप्य लब्ध्वा मानुषं मनुजभवसम्बन्धि जन्म जननं दुर्लभं दुष्प्रापं भवकोटिभिर्नरकादिभवलक्षशतसहस्रैर्व्यापारितं नियोजितं सदा नित्यं धर्मेसदनुष्ठानरूपे यै: कैश्चिदनिर्दिष्टनामभिस्तेऽत्रास्मिन् लोके नरोत्तमा: प्रधानपुरुषाः ॥४०॥
गच्छतां व्रजतां दुर्गसंसारमार्गे विषमभववर्त्मनि पर्यन्तवर्जिते निधनरहिते धर्मसम्बलं धर्मपाथेयमृते विना पुंसां पुरुषाणां दु:षमानि दुःखशतविधायित्वाद् दुःखानि पदे पदे स्थाने स्थान इति ॥४१।।
सीदन्ति समभिलषितार्थापूर्त्या दु:खमनुभवन्ति, अत्र मनुष्यभवे न नैव यै नरै धर्म: सुन्दरानुष्ठानं सम्यक् शोभनेन न्यायेनासेवित: कृत: पुरा पूर्व, साम्प्रतमधुना न च नैव कुर्वन्ति विदधति तेषामग्रेऽपि तेषां नराणामग्रेऽपि परलोकेऽपि नो नैव सुखं समेति ॥४२॥
तत्तस्मात्कारणादेषोऽयं पूर्वोक्तो भगवान्सकललोकपूजनीयोधर्म: श्रुतधर्मश्चारित्रधर्मश्च दुर्गतिगतधारको दुर्गतिप्रस्थितजन्तुनिवारक: सद्भिः सत्पुरुषैः सदैव सदाकालं कर्तव्यो विधेय: सर्वसौख्यनिबन्धनं सकलशर्मकारणमिति श्लोकचतुष्टयसमासार्थ:
॥४३॥ तथा
धर्मो विजयी सर्वत्रा-ऽधर्मो विजयवर्जितः । ततोऽधर्म परित्यज्य, धर्मे यत्नो विधीयताम् ॥४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org