________________
अधिकार १ / श्लोक ३८-३९ / श्रेष्ठिपुत्रत्रयकथा
२३
गृहान्तर्वातुल: कोऽपि, पित्तल: कोऽपि कोपन:। मानी मायीच लोभीच, कलही चापि कश्चन ॥११९।। दुःशीलो दुर्भग: कोऽपि, कोऽपि दुष्टोऽपरो जडः । गृहनायकेन कर्तव्या, सर्वेषामनुवर्तना ।।१२०॥ स्वल्पजल्पक्रियाकारी, देहादर्शितविक्रिय: । श्लाघ्यते सर्वलोकेन, यत उक्तं महात्मभिः ॥१२१।। न खनति खुरैः क्षोणीपृष्टं न नर्दति सादरं, प्रकृतिपुरुष प्रेक्ष्याप्यग्रे न कुप्यति गोन्तरम् । वहति च धुरं धुर्यो धैर्यादनुद्धरकन्धरो, जगति गुणिन: कार्योदार्यात्परानतिशेरते ॥१२२॥ दानादिगुणसंयुक्तः, सदाचारपरायणः । कुलाचारैकचित्तश्च, केन केन न शस्यते ? ॥१२३॥
यत:- त्यागैः सच्चरितैर्दयाभिरतुलैरन्योपकारैर्गुणे
गुर्वादेविनयैस्तपोभिरमलैः शुभैर्यशोभिर्नयैः ॥ तारस्फारविवेकतो निजकुलाचारात्तथा धर्मतों,
यो धीरेधुरि देहिनां न गणितः किं सोऽपि मर्यो भुवि ? ॥१२४॥ सर्वस्य चोन्नति: कार्या, वार्या दुर्जनसङ्गतिः । स्त्रीणां वशे न गन्तव्यं, वचो वाच्यं न कर्कशम्॥१२५॥ एवं च जायते कीर्ति-र्यश: सर्वत्र जृम्भते । लभ्यते प्रथमा रेखा, सत्पुरुषविचारणे ॥१२६॥ कियत्ते कथ्यते वत्स! सक्षेपात् शृणु साम्प्रतम्। दोषा हेया गुणा ग्राह्या:, कर्तव्या निर्मला दया॥१२७।। एवं श्रेष्ठी समाश्वास्य, धनचन्द्रं मुदं दधौ । गुणिन्यपि गुणाधानं, गुणायैवोपजायते ॥१२८।। गृहस्य स्वामिनं कृत्वा, दत्त्वा परिजनं निजम् । स्वयं श्रेष्ठी समारब्धो, धर्मं कर्तुमनाकुल: ।।१२९।। दृष्टान्तोऽयं समाख्यातो, दार्टान्तिक इहोच्यते । सांसारिकास्त्रय: सत्त्वा, मानुषीं योनिमागताः ॥१३०॥ तत्रैको लब्धसम्यक्त्व:, सत्यशौचसमन्वित: । लब्धलाभवणिक्तुल्यो, मृत्वा देवेषु जायते ॥१३१।। परस्तनुकषायत्वा-दानदातृत्वयोगत: । मूलाहारिवणिक्तुल्यो, मृत्वा भवति मानव: ॥१३२।। तृतीयस्तु महापापो, धर्मकर्मबहिर्मुख: । जीवघाती मृषावादी, चौर्यचातुर्यसङ्गत: ॥१३३॥ परभार्यारत: पापो, महारम्भपरिग्रह: । समूलहारिणा तुल्यो, नरकं याति दारुणम् ॥१३४|| मानुषत्वं भवेन्मूलं, लाभो देवगतिर्भवेत् । मूलनाशेन जीवानां नारकतिर्यग्योनिता ॥१३५॥ लब्धलाभसमै व्यं सर्वथा भव्यजन्तुभिः । मूलाहारिसमैर्वापि, न तुल्यैर्मूलहारिणा ॥१३६।। तदहो दुर्लभं प्राप्य, मानुष्यं भवकोटिभिः । यतध्वं सर्वदा धर्मे, येनेदं सफलं भवेत् ॥१३७॥
इति वणिक्त्रयकथानकं परिसमाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org