________________
आचार्यश्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
भणितो वत्स! किं तत्र, वाणिज्यं कुर्वता सता । अयमासादितो लाभो, मूलादष्टगुणो महान् ॥९६।। तेनापि कथितं सर्वं, यत्कृतं यच्च चिन्तितम् । लाभश्च पूज्यपादानां, पुण्यैरासादितो मया ।।९७॥ निशम्य तस्य वाक्यानि, धनो मनसि रञ्जित: । हर्षाश्रुपूरिते बिभ्र-च्चक्षुषी गलदश्रुणी ॥९८॥ पुण्यानुबन्धिपुण्येन, जन्म सम्भाव्यते तव । सुक्षेत्रमिव शस्यानां, त्वं पात्रं सर्वसम्पदाम् ॥९९।। लभ्यते ऋक्षसङ्ख्यापि, गण्यन्ते द्वीपसागरा: । तव देहे गुणानां तु, पर्यन्तोऽपि न लभ्यते ॥१००॥ त्वयैव पुत्रीपुत्राहं, त्वयैव गुणवानहं । त्वयैव श्लाघ्यतां नीत-स्त्वया जातो निराकुल: ॥१०॥ मनांसि शिष्टलोकानां, कूपोदकसमान्यहो! । निर्गुणै: स्तब्धकै: शून्यैर्गृह्यन्ते न कदाचन ॥१०२॥ भो लोका: ! साक्षिणो यूयं, विसंवादनिवारणे । कनिष्ठेऽपि गुणाधारे, धनचन्द्रेऽस्ति मे मनः ॥१०३।। यत उक्तं-गुणा गौरवमायान्ति, महत्त्वेन न रूपतः ।
कलङ्की न तथा पूज्यो निष्कलङ्को यथा शशी ॥१०॥ ततश्च सर्वलोकानां, पुरतो मङ्गलपूर्वकम् । गृहभारोऽश्रुणा सार्धं, मूर्ध्नि तस्य निवेशित: ॥१०५॥ कुबुद्धया नाशितो ज्येष्ठो, गृहे कर्मकर: कृतः । सुबुद्धियोगतो जातो, धनचन्द्रो गृहाधिपः ॥१०६।। कुबुद्धिदानत: क्रुद्धः कुमित्रपरिवारितः । विधिरेष उपायेन, पुंसो हरति सम्पदम् ॥१०७॥ सुबुद्धिदानतस्तुष्टः सुमित्रपरिवारितः । विधिरेष उपायेन, नरस्य कुरुते श्रियम् ॥१०८॥ नास्त्यसाध्यं सुचीर्णानां, पुरा जन्मनि कर्मणाम् । धनचन्द्रेण येनात्मा, लघुनापि गुरूकृतः ॥१०९।। उक्तं च-लहुएण वि वडवीयं-कुरेण साहीसयाण मज्झम्मि ।
तह संठविओ अप्पा, जह सेसतरू तले तस्स ॥११०॥ वीचिव्याप्तवियद्वितानवसुधं क्वागाधरन्धं पयो, गोलालसलीलपाणिकलिता: क्षुद्रा: क्व ते माभृतः । बद्धवा दाशरथिस्तथापि जलधिं प्रत्याजहार प्रियां,
ग्रावाणोऽपि तरन्ति वारिणि यदा पुंसोऽनुकूलो विधिः ॥१११॥ ततस्तं शिक्षयामास, श्रेष्ठी स्नेहपरायणः । वत्सावहितचित्तेन, श्रोतव्यं मामकं वचः ॥११२।। एष भारो महाभारो, दुर्वहः किन्नरैनरः । तदयं पुत्र ! वोढव्यो, गतालस्येन सर्वदा ॥११३॥ यथा न तरलायन्ते, दुर्जना दु:खदायिन: । श्यामायन्ते यथा नैते, सज्जना: सुखकारिणः ॥११४॥ सर्वदैव सलज्जेन, स्वोपयोगेन सर्वदा । व्यसनं व्यसनं कृत्वा, कर्तव्यं सुगुणार्जनम् ॥११५॥ देवानां च गुरूणां च, कार्या भक्तिरकृत्रिमा । सर्वत्रोचितवृत्त्या च, वर्तितव्यं विवेकिना ॥११६॥ माननीया जना मान्या, निन्दनीया न केचन । परमर्म न वक्तव्यं, कर्तव्यो धर्मसङ्ग्रहः ॥११७|| कर्कशं न वचो वाच्यं, न भाव्यं बद्धमुष्टिना । इन्द्रियाणि वशीकृत्य, पालनीयो गृहाश्रमः ॥११८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org