________________
अधिकार १ / श्लोक ३८-३९ / श्रेष्ठिपुत्रत्रयकथा
ग्रहैरिव गृहीतोऽसौ, मन्त्रैरिव जडीकृत: । निरुद्धवचन: शून्यो, भणितोऽपि न भाषते ।।७१।।
आकारसंवरं कृत्वा, पृष्ठं शपथपूर्वकम् । वत्स ! सत्यं प्रवक्तव्यं, तत्र गत्वा पुरे त्वया ॥७२॥ किमुक्तं चिन्तितं किंवा, किंवा कर्म त्वया कृतम् ? । तेनापि च यथा वृत्तं, तथा सर्वं निवेदितम्॥७३|| तच्छ्रुत्वा कुपित: श्रेष्ठी, किञ्चित्कम्पितकन्धरः । उवाच मिलितं लोकं, सर्वं सावेशमानस: ॥७॥ भो ! पश्यत जना! यूयं, ज्येष्ठपुत्रस्य चेष्टितम् । व्यवसायं पितृभक्तिं च, शरीरस्य स्थितिं तथा ॥७५॥ एवंविधेन वेषेण, साधुरेव प्रशस्यते । पूज्यते च जनैः सर्वैः, स्तूयते स्तुतिभिस्तथा ॥७६॥ निर्धन: श्लाघ्यते साधु-रहो मुनिरकिञ्चनः । मलिनो मान्यतामेति, मलधारी महामुनिः ॥७७॥ दुर्बल: पूज्यते लोके, भो! कष्टं तप्यते तप: । दुष्टदुर्मुखवाक्यानि, सहन् लोकेन शस्यते ॥७८॥ क्षमावानेष वन्द्योऽयं, धन्यो धर्मशिरोमणि: । कदनभोजी लोकेन, भण्यते नि:स्पृहो मुनिः ॥७९॥ भूमिशायी मुनिर्लोके, कष्टकारीति भण्यते । रोमपादनखादीनां, वर्धनं गुणवर्धनम् ।।८०॥ परूषत्वमचर्या च, केशानां श्लाघ्यते जने । अस्नानं च प्रशस्यन्ति, नैव स्नान्ति दमे रता: ॥८१॥ [स्नानमुद्वर्तनाऽभ्यङ्गे, नखकेशादिसत्क्रियाम् । गन्धं माल्यं च ताम्बूलम्, प्रदीपं तु मुनिस्त्यजेत् ।८२। स्मृतिरपि-ब्रह्मचर्यस्थितो नैव-मन्नमद्याद्विनिन्दितम् ।
दन्तधावनगीतादि, ब्रह्मचारी विवर्जयेत् ।।८३॥] एतान्युन्नतिकारीणि, साधूनां शीलशालिनाम् । अनुन्नतिकराण्येव, जायन्ते गृहमेधिनाम् ॥८४।। उक्तं च-कार्यं क्षुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता,
पारुष्यं च शिरोरुहेषु शयनं मह्यास्तले केवलम् । यान्येवावनतिं वहन्ति गृहिणां तान्युन्नतिं संयमे,
दोषाशापि गुणीभवन्ति हि नृणां योग्ये पदे योजिताः ॥८५॥ तदेष ज्येष्ठपुत्रो मे, निर्भाग्यो गुरुतल्पग: । अयोग्यो गृहभारस्य, बाह्यकर्मकरोऽस्त्विति ॥८६॥ मूलनीवीधनं मुक्त्वा , पादाग्रे प्रणतिं गतः। द्वितीयो भणित: पित्रा, पुत्रेदं मामकं धनम् ॥८७॥ दूर दूरतरं यान्ति, पुरुषा लाभवाञ्छया । समूलं ते समेतस्य, बहिश्चारो निरर्थकः ।।८८॥ ज्येष्ठवदनुज्येष्ठोऽपि, कृत: शपथशापितः । तेनापि कथितं सर्वं, यत्कृतं यच्च चिन्तितम् ॥८९।। लोका: शृणुत सर्वेऽपि, मिलिता मामकं वचः । एषोऽपि कर्मकार्येव, मन्दिरे किन्तु मध्यमः ॥९०॥ कनिष्ठोऽपि समायातो, भृत्यवर्गसमन्वित: । आदेशार्थी पुरोभूय, स्थितो विरचिताञ्जलि: ।।९१।। मूलनीवीधनं सर्वं, पादे मे मुञ्च दक्षिणे । वामे विवर्धितं मुक्त्वा, ममोत्सङ्गे निवेश्यताम् ॥१२॥ त्वन्मुखामृतपानस्य, चिरकालमुत्कण्ठित: । अद्याहं मुदितो जातो, जात ! त्वय्यवलोकिते ॥९३।। क्व मेघा बर्हिण: कुत्र?, क्व चन्द्रः क्व च सागर: ? । गुणा: कुर्वन्ति दूतत्वं, दूरेऽपि वसतां सताम्॥ धनचन्द्रस्तथा प्रोक्तः, पितुरङ्कमुपागतः । हर्षाश्रुपूरिताक्षेण, तेनाचुम्बि स मस्तके ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org