________________
२०
आचार्यश्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
यदसौ न विजानाति, युक्तायुक्तविवेचनम् । विवेकविकलो वृद्धो, जरया विमनीकृत: ॥४३॥ धनिनो यौवने धन्या, धनभोगोपभोगिनः । संरक्षितेन किं तेन, दत्तभुक्तफलं धनम् ॥४४।। एवं वितयं स स्वान्ते, गत: कान्दविकापणे । भुक्तो यथेच्छया तेना-हारश्च मनस: प्रिय: ॥४५॥ किञ्चिद्धनमधन्येन, वेश्याभिः सह भक्षितम् । किञ्चिद्यूतेन तत्तेन, हारितं हीनकर्मणा ।।४६॥ पुष्पेषु व्ययितं किञ्चि-त्किञ्चित्ताम्बूलभक्षणे । किञ्चिद्गायकलोकेषु, नग्नाचार्येषु किञ्चन ॥४७॥ किञ्चित्किञ्चिद्गतं सर्वं, तस्य हस्ते न किञ्चन । ततो नकिञ्चनो जात:, क्षामकुक्षि: क्षुधालय:॥४८॥ पाटिताखिलसद्वस्त्र:, कृतकच्छोटक: कुधी: । कुम्भकारापणे गत्वा, गृहीत्वा खण्डहण्डिकाम् ॥४९॥ रज्ज्वा संयम्य यत्नेन, गृहीत्वा दक्षिणे करे । भिक्षां बभ्राम सर्वत्र, पुरे कार्पटिको यथा ॥५०॥ यत:- अभिमतमहामानग्रन्थिप्रभेदपटीयसी, गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका । विपुलविलसल्लज्जावल्ली वितानकुठारिका, जठरपिठरी दुष्पूरेयं करोति विडम्बनाम् ॥५१॥ निर्गत्य सरसीतीरे, जलस्नेहं कुभोजनम् । भुक्त्वा नीत्वा दिनं तत्र, मक्षिकाशतसङ्कुल: ॥५२।। नक्तं सुष्वाप शून्येषु, देवगेहेषु दुःस्थित: । वर्षावधिं नयत्येष, जीवन्मृतकसन्निभ: ॥५३॥ धनावासोऽपि कौबेरी, गत्वैकत्र पुरे स्थित: । सोऽपि सञ्चिन्तयामास, यथा ज्येष्ठेन चिन्तितम्॥५४॥ समस्ति कारणं किंचि-त्तातो वेत्ति न चापरः । ततो यामद्वयं यावद्-व्यवहारो मम सङ्गत: ॥५५॥ उपार्जितस्य चार्थस्य, भक्षणं मूलरक्षणम् । सोऽपि शास्त्रे वणिग्दृष्टो, मूलं यस्य न नश्यति ॥५६॥ एवं च कुर्वतस्तस्य, प्रत्यहं यान्ति वासरा: । धनचन्द्रो वारुणीं गत्वा, स्थितश्चैकत्र पत्तने ॥५७॥ चिन्तितं सुधिया तेन, स्वस्थानेऽपि न सुन्दरम् । व्यसनं शिष्टलोकानां, विदेशेषु विशेषत: ॥५८॥ असारेऽप्यत्र संसारे, पितरौ सारतां गतौ । यच्चाहितौ तदा कोऽन्यो, हितो हन्त! भविष्यति ॥५९॥ व्यसनं सकलं त्यक्त्वा, ग्रासाच्छादनतत्परः । अर्थचिन्तापर: शेते, यामद्वन्द्वं यथा मुनिः ॥६०॥ शेषकालं गतालस्यो, व्यवहारं चकार स: । जातश्चाष्टगुणो लाभ-स्तस्य स्वल्पदिनैरपि ॥६१॥ सम्पूर्णावधय: सर्वे, चलिता: स्वगृहोन्मुखा: । सुखं सुखेन सम्प्राप्ता, ग्रामे ते गुणसुन्दरे ॥६२॥ कनिष्ठेन पुमानेको, वार्ताकथनहेतवे। प्रेषित: श्रेष्ठिनस्तेन, सर्ववार्ता निवेदिता ॥६३॥ भणिता श्रेष्ठिना भद्रा, सुभद्रे! तव नन्दना: । तिष्ठन्ति मिलिता: सर्वे, ग्रामे ते गुणसुन्दरे ॥६४॥ गमने यो विधिस्तेषा-मागमेऽपि स एव हि । क्रियतां येन लोकस्य, प्रतीतिर्जायते प्रिये! ॥६५॥ तथैव विहितं सर्वं, लोके मण्डपमाश्रिते । ग्रामादानायिता पुत्रा:, समासन्नाश्च धारिता: ॥६६।। पूर्वं प्रवेशितो ज्येष्ठो, भृत्यैर्वामकरैर्धतः । लज्जन्नधोमुख: क्षीणः, स्खलत्पाद: पदे पदे ॥६७।। पाप: प्रकटकौपीन:, कृतकच्छोटक: कटौ । सर्वलोककृपास्थानं, दुर्बलोऽतिमलाविल: ॥६८॥ भृत्यद्वयेन लज्जालु-धृत्वा वामेतरे करे । मुक्तोऽग्रे स समानीय, श्रेष्ठिन: श्रेष्ठकर्मण: ॥६९॥ भणित: श्रेष्ठिना वत्स!, पादं पूजय मामकम् । दक्षिणं मूलनीव्या त्वं, लब्धलाभेन वामकम् ।।७०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org