________________
अधिकार १ / श्लोक ३८-३९ / श्रेष्ठिपुत्रत्रयकथा
न दन्तकलहो यत्र, तत्र शक्र! वसाम्यहम् । कुटुम्बकलहो नापि, तत्र वासो भवेन्मम ॥१५।। परिच्छेदो हि पाण्डित्यं, तदायत्ता हि सिद्धयः । अपरिच्छिन्नतत्त्वानां, काचकिच्यं पदे पदे ॥१६॥ राज्यमन्दिरगच्छानां, भारोऽयमतिदुर्वहः । अयोग्यस्थापितो नूनं, स्थाष्णुतां न समश्नुते ॥१७॥ तत: कृत्वा स्वपुत्राणां, योग्यायोग्यपरीक्षणम् । पात्रभूते गृहभारं, निवेश्याहं निराकुल: ॥१८॥ करोमि धर्मकर्माणि, सृतं मे गृहचिन्तया । एवं विनिश्चयं कृत्वा, भणिता तेन गेहिनी ॥१९॥ कुसूत्रं ते गृहं भद्रे!, वद किं क्रियतेऽधुना । आर्यपुत्रो विजानाति कार्याकार्यविवेचनम् ॥२०॥
आज्ञाकारी जनस्तेऽयं, तत: श्रेष्ठी बभाषताम् । महाकटकृतच्छायं, सर्वतो रचितासनम् ॥२१॥ महान्तं महतां योग्य, रम्यं रञ्जितसज्जनम् । सर्वतोऽपि परिक्षिप्तं, मण्डपं रचयाम्यहम् ।।२२।। भवत्यपि वराहारं, निष्पादयतु सत्वरम् । येनैष भोज्यते लोको, मण्डपे चोपवेश्यते ॥२३॥ तथेति प्रतिपद्यासौ, पाकं कर्तुं समुद्यता। निष्पन्नस्तत्क्षणादेव, पाक: पुण्यजनोचितः ॥२४॥ वैवाहिका: स्वगोत्राश्च, ये चान्ये राजपूजिता: । श्रेष्ठिनाऽऽमन्त्रिता: सर्वे, भोजनार्थं निजे गृहे ॥२५॥ आयाता भोजिताश्चैव, मण्डपे चोपवेशिता: । ताम्बूलादिप्रदानेन, कृता: सन्मानभाजनम् ॥२६॥ स्वयं मण्डपमध्यस्थो, निषण्णो वरविष्टरे । मण्डपागतलोकेन, सर्वत: परिवारितः ॥२७॥ सहस्रमानमेकैकं, तभृत्यैर्वासनत्रयम् । श्रेष्ठिवाक्यात् समानीय, मुक्तं तत्पादयो: पुरः ॥२८॥ समाहूता: सुता: सर्वे, जनाध्यक्षं च भाषिता:। वत्सा! या मन्दिरे लक्ष्मी:, सा सर्वापि मयार्जिता ॥२९॥ तया गर्वो न कर्तव्य-स्तद्भोगोऽपि न सङ्गतः । यत: सा जननीतुल्या वन्दनीया विवेकिनाम् ॥३०॥ यौवनेऽपि समारूढा, अर्थोपार्जनवर्जिता: । नरास्ते रूपमात्रेण, तत्त्वतो नरकीटका: ॥३१॥ न देशभाषाविज्ञानं न देशाचारविज्ञता। न च नेपथ्यविज्ञानं, न स्वपुण्यपरीक्षणम् ॥३२॥ वाणिज्येन विनानैत-न्नराणामुपजायते । वाणिज्यविकला लोके, पशव: शृङ्गवर्जिताः ॥३३।। स्वभुजोपात्तवित्तेन, भोगो दानं च शोभते । पितृलक्ष्म्या तु कुर्वन्ति, ये ते मानविवर्जिताः ॥३४॥ कालकारी नरो लोके, केन केन न शस्यते ? । प्राप्नोति वाञ्छितं चार्थं, यतोऽवाचि विचक्षणैः ॥३५॥
प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् ।
तृतीये नार्जितो धर्म-श्चतुर्थे किं करिष्यति ? ॥३६॥ इत्याद्युक्त्वा स्वहस्तेन, पुत्राणां करतले कृतम्। एकैकं वासनं तेन यात यातेति जल्पता ॥३७॥ अथ प्राची प्रति ज्येष्ठ-श्चलितो हृदि पीडित: । दिनैः कतिपयैरेव, प्राप्तो विश्वपुरं पुरम् ॥३८॥ वेश्यास्ताम्बूलिकास्तत्र, द्यूतकाराश्च मालिका: । वसन्ति बहवो लोका, धनाकर्षणहेतवे ॥३९।। अथ तत्र पुरे तस्य, सञ्जाता चित्तनिर्वृति: । उन्मुद्र्य वासनं पैत्र्यं, चिन्तितं मूढचेतसा ॥४०॥ सत्यापितश्च तातेन, जनवादोऽयमीदृश: । वृद्धत्वे हि मनुष्याणां, पञ्चानिष्टसमुद्भवाः ॥४१।। दुर्भाषालीकभाषित्वं, निर्लज्जत्वं भयं तथा । तृष्णा च प्रत्यहं तस्य, देहेन सह वर्धते ॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org