________________
१८
आचार्यश्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
एवं स्थिते यत्कर्तव्यं तदुपदिशन्नाह
तदहो मानुषत्वादि-सामग्री प्राप्य दुर्लभाम् । सर्वसौख्यकरे जैने, धर्मे यत्नो विधीयताम् ॥३८॥
तत्तस्मात्कारणादहो! इत्यामन्त्रणे [मानुषत्वादिसामग्री] मानुषत्वं मनुजत्वमादिर्यस्या: सा चासौ सामग्री च ताम्, आदिशब्दागोत्रकुलादिग्रहः, प्राप्य लब्ध्वा दुर्लभां दुष्प्रापां सर्वसौख्यकरे सकलसुखकरे जैने जैनेन्द्रे धर्मे शुभानुष्ठाने यत्न: प्रयत्नो विधीयतां क्रियतामिति ॥३८॥ अथ मानुषत्वं धर्मस्य मूलहेतुतया दर्शयन्नाह
मानुषत्वं हि सद्धर्म-मूलनीवीसमं बुधैः । कथ्यते समये श्रेष्ठि-पुत्रत्रयनिदर्शनात् ॥३९॥
श्लोकोऽयं सुगमो, नवरं सद्धर्ममूलनीवी प्रथमभाण्डमूल्यं, तया सममिति, तथा समये सिद्धान्ते श्रेष्ठिपुत्रत्रयनिदर्शनाद्वणिक्सुतत्रयदृष्टान्तादिति । कथानकमत्रबभूव भुवनाख्याते, पुरे भूरिधनालये । त्रिदशालयसंकाशे, वसन्तपुरनामनि ॥१॥ श्रिय: स्थानं धनो नाम, श्रेष्ठी धनदसन्निभः । राजादीनां सदा मान्य:, सुहृद्वन्धुसमाश्रयः ॥२॥ बुभुजे निजकां लक्ष्मी, बद्ध्वा सुगुणरज्जुभि: । प्रियां कान्तां समालिङ्ग्य, बाहुभ्यामिव मारभाक्॥३॥ मान्या प्रियंवदा शान्ता, सुरूपा शीलशालिनी। सुभद्रेति बभूवास्य, गृहिणी गुणधारिणी ॥४॥ परस्परेण निश्छिद्र-प्रेमपूरितयोस्तयोः । एकमेवाभवच्चित्रं, पृथक्त्वं देहमात्रतः ।।५।।
मनोरथशतैर्जाता-स्तयो: पुत्रास्त्रय: क्रमात् ।
धनयक्षो धनावासो, धनचन्द्र: कनिष्ठकः ॥६॥ कृतानि नामधेयानि, वर्धापनकपूर्वकम् । प्रहृष्टश्च पिता चित्ते, माता माति न भूतले ॥७॥ पञ्चधात्रीगृहीताश्च, परिवारकृतादरा: । सुखंसुखेन वर्धन्ते, नन्दने पादपा यथा ॥८॥ लालिता: पालिताश्चैव, पाठिता: परिणायिता: । विकारबहुले याव-दारूढा नवयौवने ॥९॥ भार्यायत्ततया ताव-न्मातृपितृपराङ्मुखाः । ये निजास्ते परे जाता, धिगहो यौवनजृम्भितम् ॥१०॥ परस्परेण पितॄणां, जायते चित्तखेदनम् । कलहायोपतिष्ठन्ते, श्वश्वा सार्धं वधूटिका: ॥११॥ अन्येद्यु: श्रेष्ठिनाऽचिन्ति, नेदंगृहविवृद्धिकृत् । यथा पृष्टा किलेन्द्रेण, हे लक्ष्मि! क्वोष्यते त्वया? ॥१२॥ श्रुत्वा शक्रवचो लक्ष्मी: किञ्चिदुत्फुल्ललोचना । जगादेदं सुराधीशं, हृष्टवक्त्रा स्फुटाक्षरम् ॥१३॥ श्रूयतां श्रूयतां स्वामिन्!, कथ्यते कथ्यते तव । गुरवो यत्र पूज्यन्ते, धान्यं यत्र सुसञ्चितम्॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org