________________
अधिकार १ / श्लोक ३७ / मधुबिन्दुरसासक्तनरकथा
कलापिकोकिलाकान्त-सारिकाशुकशब्दितैः । गायन्तमिव नृत्यन्तं, मरुत्कम्पितपल्लवैः ॥५०॥ तमारोदमशक्तेन, भयभीतेन सर्वत: । अधोऽध: पश्यता तेन, अन्धकूपो विलोकित:॥५१॥ वन्यवारणभीतेन, प्राणप्राणनवाञ्छया । तेनात्मा चावटे क्षिप्त:, सरस्तम्बस्तदन्तरे ॥५२॥ विलोकितो गृहीतश्च, भुजाभ्यां जीवितार्थिना । स तत्र लम्बमानो हि, यावदास्ते क्षणान्तरम् ॥५३॥ तावत्कूपतले दृष्टो-ऽजंगरो यमसन्निभ: । ऊर्ध्ववक्त्रो महाकायो, बृहत्कुक्षिर्महोदरः ॥५४॥ रौद्र: सन्दर्शनादेव, सम्पादितमहादरः । इतश्च पश्यता तेन, कूपान्तश्च दरीस्थिता: ॥५५॥ चत्वार: पन्नगा दृष्टा, महाकाया महाभया: । सनीरनीरदच्छाया, रक्ताक्षा: क्षामकुक्षयः ॥५६॥ स्निग्धस्त्रीवेणिसङ्काशा, द्विजिह्वा दुर्जनोपमा: । सरस्तम्बतले दृष्टौ, शुक्लकृष्णौ च वर्णत: ॥५७|| मूषकौ तस्य मूलानि, खनन्तौ तावनारतम् । इतश्च दन्तिना तेन, क्रोधान्धीकृतचक्षुषा ॥५८॥ तिर्यग्दत्तप्रहारेण, समुद्धृतकरेण च । बलिना मदमत्तेन, दन्ताभ्यामाहतो वटः ॥५९॥ स शाखी शतशाखोऽपि, दशनाघातपीडितः । चकम्पे शत्रुणा रुद्धो, यथा कातरमानवः ॥६०|| नानानीडसमुड्डीन-विहङ्गमविकूजितैः । मुक्तकण्ठं कठोरेण, रोदितीव स्वरेण स: ॥६१॥ अल्पसत्त्वस्य सत्त्वस्य, महतोऽपि महाभयम् । सिंहे लघुशरीरेऽपि, सत्त्वतो मृगराजता ॥२॥ कूपस्योपरि या शाखा, तस्यां यन्मधुसम्भृतम् । तेंद्रनं मक्षिका नष्टा, धाविता डुङ्गरं प्रति ॥६३॥ स ताभिश्चण्डतुण्डाभिः, खाद्यमानो मुहर्मुहः । किं करोति सहत्येव, तीव्रदुःखं परंवश: ॥६४॥ शाखात: पतितो बिन्दु-मधुनस्तस्य मस्तके। शनैः शनैर्जुठन्नेष, मुखमूलमुपागतः ॥ ६५|| तत: सर्वाणि दुःखानि, हस्त्यादीनि भयानि च । विहाय पृष्ठत: पाप:, पपौ तं मधुबिन्दुकं ॥६६॥ ललल्लालाकरालेन, जिह्वाग्रेण समन्तत: । लिलेह स्वं मुखं श्वेव, रसास्वादनतत्परः ॥६७|| दृष्टान्तोऽयं समाख्यात, एष दाान्तिकोऽधुना । भण्यते भव्यसत्त्वानां, भवनिर्वेदहेतवे ॥६८॥ जीव: पथिकसङ्काश:, संसारश्च महाटवी । वनहस्तिसमो मृत्यु-र्वनिता च जरा मता ॥६९।। मन्दं मन्दं प्रयात्येषा, पृष्टौ लग्ना शरीरिणाम् । एषैव सर्वजीवानां, राक्षसीव भयङ्करा ॥७०॥ वटो मोक्षसम: प्रोक्तः, सर्वजीवाभयङ्करः । यदर्थं योगिन: सर्वे, यतन्ते कृतनिश्चया: ।।७१।। कूपो नरभव: प्रोक्त-स्तम:स्तोमसमाकुल: । आयुष्कं च सरस्तम्ब-मूलतुल्यं प्रचक्षते ।।७२।। द्वौ पक्षौ मूषको ज्ञेया-वायुर्मूलविनाशकौ । पन्नगा इव चत्वारः, कषाया दु:खहेतवः ॥७३॥ रोगा मधुकरीतुल्या, नानादु:खनिबन्धना: । यैरतीवाहतो जीवो, बम्भ्रमीति भवाध्वनि ॥७४॥ वक्त्रमाजगरं यत्तु, तद्रौद्रनरकोपमम् । गुरुकर्मरसासक्तो, धर्मकर्मपराङ्मुखः ॥७५।। अभव्यो दूरभव्यो वा, पुमानेष विभाव्यताम् । ततो भव्या भवाम्भोधे-र्यदि वस्तरणे मतिः ॥७६॥ तदेदृक्षैर्न वै भाव्यं, भवभीतभवादृशैः । तदिदं धर्मसर्वस्व-मुपदेशोऽयमुत्तमः ॥७७।।
इति मधुबिन्दुरसासक्तकूपगतनरकथानकं समाप्तमिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org