________________
१६
आचार्यश्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
तयापि सुन्दरं ज्ञात्वा, रक्षितं न तु भक्षितम् । प्रभाते च तमादाय, सा गता नृपमन्दिरम् ॥२३॥ प्रणम्य भूपते: पादौ, तया तत्फलमर्पितम् । प्रत्यायनाकृते राज्ञा, समाहूता वसुन्धरा ॥२४॥ तत: सुखासनस्थाया, दत्तमस्या: करे फलम् । ततो विलासिनी पृष्टा, कुतो लब्धमिदं त्वया? ॥२५॥ तया वणिक्सुत: शिष्टो, वणिजाऽपि च डुङ्गरः । एतच्छ्रुत्वा च दृष्ट्वा च, विस्मयस्मेरलोचना॥२६॥ प्रोवाचेदं सभामध्ये, राजमाता वसुन्धरा । अहो सत्यापितोऽनेन, जनवादोऽयमीदृशः ॥२७॥ अथवास्याऽपि नो दोषो, यस्य कर्म पराङ्मुखम् । द्रोणमेघजलं जातु, डुङ्गरे नावतिष्ठते ॥२८॥ अप्राप्तं जायते नैव, नाकृतं कर्म भुज्यते । [सं] प्राप्तं च कृतं चैव, कर्म जीवफलप्रदम् ॥२९॥ भणितं च-जो जेत्तियस्स अत्थस्स, भायणं लहइ तेत्तियं सो उ।
बुटेवि दोणमेहे, न डुंगरे पाणियं ठाइ ॥३०॥ न हि भवति यन्न भाव्यम्, भवति च भाव्यं विनापि यत्नेन ।
करतलगतमपि नश्यति, यस्य तु भवितव्यता नास्ति ॥३१॥ यद्यावद्यादृशं येन, कृतं कर्म शुभाशुभम् । तत्तावत्तादृशं तस्य, फलमप्यवतिष्ठते ॥३२।। एवमुक्त्वा गता राज्ञी, विसर्जितसभो नृपः । राजकार्यपरो जातो, डुङ्गरोऽपि गतो गृहम् ॥३३॥ विषादविधुरो दीन:, खेदखेदितविग्रह: । नष्टचेता निरानन्द-श्चिन्तयामास मानसे ॥३४।। वरं मतो वरं दग्धो, वरं देशान्तरे गतः । यो जीवति परावज्ञा-दुःखदग्धोऽपि मानव: ॥३५॥ मरणं वा विदेशो वा, द्वयमेव मे सङ्गतम् । एवं विचिन्त्य सुप्तोऽसौ, क्षपा क्षयमुपागता ॥३६॥ रत्नसागरसम्बन्धी, भेरीभाङ्कारभीषण: । प्रभाते चलित: सार्थः, सोऽपि तेन समं गतः ॥३७॥ कृतरक्षो महायोधैः, सुखावासप्रयाणकैः । दिनैः कतिपयैरेव महाटव्यां विवेश स: ॥३८॥ या च नानाविधैर्वृक्षै-विहगैश्च विराजिता । विचरत्खङ्गिशार्दूला, सन्त्रासितजगज्जना ॥३९॥ नभ:श्रीरिव कुत्रापि, चलचित्रोपशोभिता । अन्यत्र सिंहज्येष्ठार्क-मूलमन्दारराजिता ॥४०॥ क्वचिद्भूतगणोपेता, भवानीव मनोहरा । क्वचिद्भमन्महाभोग-भुजङ्गशतसङ्कुला ।।४।। क्वचिन्महाशिवासङ्घ-फेत्कारसंरवाकुला । क्वचित्प्रेतरसेवोच्चैः, सर्वलोकभयङ्करा ॥४२॥ स तस्यां दैवयोगेन, सार्थाद्धृष्टो भयगुत: । बभ्राम भीषणेऽरण्ये, एकाकी कर्मयोगतः ॥४३॥ तत: प्रचण्डशुण्डेन, भीषिताखिलजन्तुना । उर्ध्ववालधिना तूर्ण-मितश्चेतश्च धावता ॥४४॥ वनवल्लीवितानानि, क्रोधावेशात्प्रभञ्जता। गर्जता घनशब्देन, तुङ्गेन च तरस्विना ॥४५॥ कालेनैव च कालेन, नगजेन गजेन स: । दृष्टः क्रूरदृशा तेन, हेलया हन्तुमिच्छता ॥४६।। डुङ्गरोऽपि गजस्याग्रे, धावमान: शनैः शनैः । जराजर्जरसर्वाङ्गीं, स्त्रियमेकां व्यलोकयत् ।।४।। सोऽपि तं गजमालोक्य, समागच्छन्तमातुर: । नश्यन्नितस्तत: शीघ्रं, वटमेकमुपागतः ॥४८॥ शतशाखं सुविस्तारं, सुपत्रं द्विजसेवितम् । पुण्यं पुण्यफलोपेतं, सत्पुरुषमिवोन्नतम् ॥४९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org