________________
अधिकार १ / श्लोक ३७ / मधुबिन्दुरसासक्तनरकथा
हस्त्यादिभ्यो गजादिभ्यः, आदिशब्दादजगरसर्पमूषकमक्षिकादिपरिग्रहः, महाभीतिं महती चासौ भीतिश्च महाभीतिस्तां महाभयमित्यर्थः, विगणय्यापकर्ण्य विमूढधीविशेषेण मूढा मोहं गता धीर्बुद्धिर्यस्य स विमूढधी:मधुबिन्दुरसासक्तो मधुन: क्षौद्रस्य बिन्दवो लवा मधुबिन्दवस्तेषां रसस्तत्रासक्तो गृद्धो मधुबिन्दुरसासक्तो यथा येन प्रकारेण कूपगतोऽवटमध्यप्रविष्टो नरो मानव इति श्लोकद्वादशकार्थः ।।३७।।
अवटगतमधुबिन्दुरसासक्तमनुजकथानकमिदम्बभूव भारते क्षेत्रे, देशे च मगधाभिधे । क्षितिप्रतिष्ठितं नाम, पुरं शक्रपुरोपमम् ।।१।। भान्ति यत्र सपद्मानि, सरांसि च गृहाणि च । कामिन्य: काव्यबन्धाश्च, सालङ्काराश्चकासति ॥२॥ शूर: सत्यप्रतिज्ञश्च, तत्रासीद् दुर्गशासन: । चन्द्र इव प्रजानन्दो, द्रोणमेघो नराधिपः ॥३॥ सहजात: क्रीडितो धूल्या, सहैव च विवर्धितः । निर्भाग्यशेखरस्तस्य, डुङ्गरोऽजनि सेवकः ॥४॥ ददाति शतशो राजा, बालमित्रधिया धनम् । तच्च तस्य क्वचिद्याति, दारिद्यमवतिष्ठते ॥५॥ ततोऽसौ निष्फलारम्भो, दीनो दारिद्यभाजनम् । कष्टां दशां समापन्न:, कष्टं नयति वासरान् ॥६॥ अन्येद्युः साधिताशेष-प्राभातिकप्रयोजने । सभासिंहासनासीने, द्रोणमेघनराधिपे ॥७॥ वर्णगन्धरसस्पर्शे-हृद्यं जनमनोहरम् । बीजपूरफलं राज्ञे, मालाकारेण ढौकितम् ॥८॥ प्रयोजनवशायाता, राजमाता वसुन्धरा। सन्मानिता नरेन्द्रेण, भद्रासनमुपाश्रिता ॥९॥ यावदास्ते क्षणं तावद्, डुङ्गरोऽपि समागतः। प्रणम्य भूभुज: पादा-निविष्टो दर्शितासने ॥१०॥ वसुन्धरा बभाणेदं, राजानं जातविस्मया। किमेष दु:खितो वत्स! डुङ्गरस्तव सेवकः ? ॥११॥ त्वं हि विश्वम्भरो राजा, डुङ्गरश्च त्वदाश्रितः । रत्नाकर: सखा यस्य, स कथं दुर्गतायते ? ॥१२॥ एतन्निशम्य सञ्जात-गुरुखेदो नराधिप: । जगादेदं जगत्पूज्यो, मातृप्रत्यायनाकृते ॥१३॥ दत्तमस्मै मया मात-र्धनं जीवनहेतवे । न तिष्ठति परं याति, छिद्रहस्ते यथा जलम् ॥१४॥ एवमुक्त्वा समाहूत:, शिल्पिकश्छेदकोविदः । तथा च पाटितं तेन, मातुलिङ्गं प्रवेशितम् ॥१५॥ नृपाङ्गुलीयकं तत्र, लक्षमूल्यं मनोहरम् । सीवितं च तथा तेन, दुर्लक्षं जायते यथा ॥१६॥ भणिता वसुन्धरा राज्ञा, स्वहस्तेन समर्पय । फलमस्मै महामूल्यं, मुद्रालङ्कारसम्भृतम् ॥१७॥ तयापि ढौकितं तस्मै, चलित: सोऽपि निजे गृहे। गच्छता चिन्तितं तेन, किमनेन करोम्यहम् ? ॥१८॥ यस्य मे भोजनं नास्ति, फलं तस्य करोति किं ? । ततश्च गच्छता तेन, वणिक्पुत्रो धनञ्जयः॥१९॥ धनवानग्रतो दृष्टः, फलमस्मै समर्पितम् । तेनापि रूपको दत्त-स्तमादाय गृहं गतः ॥२०॥ न ददात्यधिकं दातुं, विधिरस्य विबन्धकः । इतश्चास्ति सशृङ्गारा, मान्या मन्मथमन्दिरम् ॥२१॥ मगधासुन्दरी नाम, राजपिण्डविलासिनी । धनञ्जयेन तत्तस्यै, दत्तं कामसुखार्थिना ॥२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org