________________
आचार्यश्री वर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
जननी माता, जनकः पिता, भ्राता सहोदरः, पुत्रः सुतः, पुत्री दुहिता, सुहृन्मित्रं, धनं द्रव्यं एतान्यमूनि कृत्रिमाण्येवासहजान्येव धर्मः पुनः शुभानुष्ठानं पुनः अकृत्रिमः सहज एवैकरूप इत्यर्थः ॥ २९ ॥
१४
तिष्ठन्ति आसते अर्था द्रव्याणि गृहेष्वेव मन्दिरेष्वेव, श्मशाने पितृवने यान्ति गच्छन्ति बान्धवाः स्वजनाः दत्त्वा वितीर्य जलाञ्जलिं पानीयाञ्जलिं भूयोऽपि पुनरपि अपेर्गम्यमानत्वा न्मोदन्ते क्रीडन्ते गृहं मन्दिरमागता आयाता इति ||३०||
परलोकप्रयाणस्थं परभवे प्रस्थितं विमुक्तं परित्यक्तं मित्रबान्धवैः सुहृज्जनैः धर्माधर्माविमंजीवं सुकृतदुष्कृते एनं जन्तुं गच्छन्तं व्रजन्तमनुगच्छतोऽनुव्रज इति ॥ ३१ ॥
यत्र यत्र यस्मिन् यस्मिन् स्थाने प्रयाति प्रगच्छति एषोऽयं जीवो जन्तुर्धर्मसहायको धर्मद्वितीयस्तत्रतत्रास्यैतस्य सौख्यानि सुकर्माणि जायन्ते सम्पद्यन्ते, चस्य भिन्नक्रमत्वाद् उत्तराः प्रधानाः श्रियः सम्पदश्च ||३२|
यत्र यत्र प्रयात्येष जीव इति पूर्ववत् पापसमन्वितः पापयुक्तस्तत्र तत्रास्य दुःखानि दारिद्यं च प्रजायते, दुःखानि शारीरमानसिकसन्तापा: दारिद्यं निर्धनत्वं च भवतीत्यर्थः ॥ ३३॥
दुःखद्विषो दु:खद्वेषिणो जना लोकाः सर्वे समस्ताः सर्वे च सुखलिप्सवः सुखाभिलाषिणः, सुखं च शर्म च धर्मतो धर्मादेव, दुःखं पुनरधर्मतो दुरनुष्ठानादेव ॥ ३४ ॥
जानन्तोऽपि विदन्तोऽप्येवममुना प्रकारेणात्यर्थमतिशयेन महामोहवशंगता बृहदज्ञानवश्यतां प्राप्ताः सक्ताआसक्ताः सांसारिके भवसम्बन्धिनि सुखे शर्मणि धर्म्यं धर्मार्हं कर्मानुष्ठानं न कुर्वते न विदधतीति ॥ ३५॥
सुखे शर्मणि वैषयिके शब्दरसरूपगन्धस्पर्शरूपविषयजे लुब्धा गृद्धाः प्रार्थयन्तो वाञ्छन्तस्तदेव विषयसुखमेव, हिः पूरणे, दुःसहान्यपि दुःखानि कृच्छ्राणि गणयन्ति सङ्ख्यानयन्ति न नैव देहिनो जीवा इति ॥ ३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org