________________
अधिकार १ / श्लोक २४-३७ / धर्माऽधर्मयोः प्रशंसा - निन्दे
जननी जनको भ्राता, पुत्रः पुत्री सुहृद्धनम् । एतानि कृत्रिमाण्येव, धर्मः पुनरकृत्रिमः ॥ २९ ॥ तिष्ठन्त्यर्था गृहेष्वेव, श्मशानेषु च बान्धवाः । दत्त्वा जलाञ्जलिं भूयो मोदन्ते गृहमागताः ॥३०॥ परलोकप्रयाणस्थं, विमुक्तं मित्रबान्धवैः । धर्माधर्माविमं जीवं, गच्छन्तमनुगच्छतः ॥३१॥ यत्र यत्र प्रयात्येष, जीवो धर्मसहायक: ।
"
"
तत्र तत्रास्य सौख्यानि जायन्ते चोत्तराः श्रियः ||३२|| यत्र यत्र प्रयात्येष, जीवः पापसमन्वित: ।
"
तत्र तत्रास्य दुःखानि, दारिद्यं च प्रजायते ॥ ३३ ॥ दुःखद्विषो जनाः सर्वे, सर्वेऽपि सुखलिप्सवः । सुखं च धर्मतः सर्वं दुःखं पुनरधर्मतः ॥ ३४ ॥ जानन्तोऽप्येवमत्यर्थं, महामोहवशंगता: । सक्ता: सांसारिके सौख्ये, धर्म्यं कर्म न कुर्वते ॥ ३५ ॥ सुखे वैषयिके लुब्धा:, प्रार्थयन्तस्तदेव हि । दुःसहान्यपि दुःखानि, गणयन्ति न देहिनः ||३६|| हस्त्यादिभ्यो महाभीतिं, विगणय्य विमूढधीः । मधुबिन्दुरसासक्तो, यथा कूपगतो नरः ||३७||
१३
तस्मात्कारणाद् अधर्मं पापानुष्ठानमुत्सृज्य परित्यज्य धर्मे सद्नुष्ठानरूपे चित्तं मनो निवेश्यतां निधीयतां स्वर्गापवर्गसंसर्गहेतुः देवलोकसिद्धिसम्पर्ककारणं धर्मो दयाप्रधानमनुष्ठानं यतो यस्मात्कारणाद् अङ्गिनां शरीरिणामिति ॥ २६॥
सेतुर्मार्गो भवार्णवे संसारसमुद्रे, दुर्गतिद्वाररोधको नरकादिदुः खपिधायकः कृशानु र्ज्वलन: कर्मकान्तारे कर्मवनगहने, निःश्रेणि: अधिरोहिणी शिवमन्दिरे परमपदप्रासाद इति ॥२७॥
सर्वापायविनिर्मुक्तः सर्वदोषविवर्जितः सर्वशिष्टनिषेवितः सर्वसाधुजनाचरितः माभी: प्रदायको मा भयं कार्षुरित्येवमाश्वासकवचनदायकः, लोके जगति धर्म एव शुभानुष्ठानमेव, न चापरो नान्य इत्यर्थः ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org