SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीवर्धमानसूरिचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके हीनेत्यादि, हीना हीनम्लेच्छादिलोकसम्बन्धिनी जातिरुत्पत्तिर्वंशरूपा सरोगत्वं सव्याधित्वं, दरिद्रत्वं दुर्गतत्वं, पराभव: परैरपमाननम्, अल्पं स्तोकमायु र्जीवितं, कुरूपत्वं हीनरूपत्वं, दौर्भाग्यं लोकावल्लभत्वं, दीनवृत्तिता दीनानुकम्पार्हा वृत्तिवर्तनं यस्य स दीनवृत्तिस्तस्य भावो दीनवृत्तिता, जघन्यवृत्त्या परप्रेष्यत्वसेवकत्वरूपया निर्वाह इत्यर्थः। यदन्यदपि यदपरमपि वस्तु कलत्रादिक: पदार्थोऽत्राऽस्मिन् लोके प्राणभाजां प्राणिनां न सुन्दरमशोभनं दुःखाय चित्तसन्तापाय जायते सम्पद्यते लोके भुवने तत्सर्वं तत्समस्तं पापजृम्भितं पापविलसितं, तदेतत्सर्वमशुभं पापानुष्ठानविपाकेन प्राप्यते प्राणिभिरित्यर्थः इति श्लोकचतुष्टयार्थः ।।२२-२३॥ अथ धर्मिकाधार्मिकयो: स्वरूपं पूज्यतां निन्द्यतां च प्रदर्शयन् श्लोकद्वयमाह निवृत्ता: सर्वपापेभ्यः प्रवृत्ता धर्मकर्मसु। इहैव धार्मिका लोका: पूज्यन्ते मनुजामरैः ॥२४॥ इहैव पापकर्माणि, कुर्वन्त: पापिनो जनाः । निन्द्यन्ते सर्वलोकेन, प्राप्यन्ते च कदर्थना: ॥२५।। निवृत्ता व्यावृत्ता सर्वपापेभ्य:, सर्वाणि च तामि पापानि च प्राणिवधादीनि तेभ्य: सर्वपापेभ्य:, प्रवृत्ता: प्रवृत्तिं कृतवन्तो धर्मकर्मसु धर्मक्रियासु, इहैवा,त्रैव लोके, धार्मिका धर्मवन्तो लोका जना: पूज्यन्तेऽर्च्यन्ते मनुजामरैर्नरत्रिदशैरिति । इहैव पापकर्माणि अत्रैव प्राणिवधमहारम्भादिपापक्रियां कुर्वन्तो निर्वर्तयन्त: पापिन: पापिष्ठा: जना लोका निन्द्यन्ते हील्यन्ते सर्वलोकेन सकलजनेन, प्राप्यन्ते लभ्यन्ते कदर्थना विडम्बना इति श्लोकद्वयार्थः ।।२४-२५॥ अथ धर्माधर्मप्रशंसाऽप्रशंसार्थं श्लोकद्वादशकमाह तस्मादधर्ममुत्सुज्य, धर्मे चित्तं निवेश्यताम् । स्वर्गापवर्गसंसर्ग-हेतुर्धर्मो यतोऽङ्गिनाम् ॥२६॥ सेतुर्भवार्णवे धर्मो, दुर्गतिद्वाररोधकः । कृशानुः कर्मकान्तारे, नि:श्रेणि शिवमन्दिरे ॥२७॥ सर्वापायविनिर्मुक्तः, सर्वशिष्टनिषेवितः । माभी: प्रदायको लोके, धर्म एव न चापरः ॥२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy