SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अधिकार १ / श्लोक १८ - २३ / धर्मफलस्वरूपम् वचो वचनं सत्यं तथ्यं वर्ण्यते भाष्यते च स धर्म इति । यत्र वा चौर्यं चोरस्य भावश्चौर्यं स्तैन्यं तद्विपरीतमचौर्यं वर्ण्यते चर्यते च स धर्म इति । ब्रह्मसेवनमिति, ब्रह्म ब्रह्मचर्यं, तस्य सेवनं पालनं ब्रह्मचर्यसेवनं, तद्यत्र वर्ण्यते चर्यते च पाल्यते च स धर्म इति । सन्तोष: सन्तुष्टता सचित्ताचित्तवस्तुषु मूर्च्छापरिहार इत्यर्थः । स च यत्र वर्ण्यते सेव्यते स विज्ञेयो ज्ञातव्यो धर्मः श्रुतचारित्रात्मकः सर्वज्ञभाषितः सर्ववेदिभिः प्ररूपित इति ॥१८|| उक्तं धर्मस्वरूपमथाधर्मस्वरूपमाह यत्र यस्मिन्नधर्मे हिंसा प्राणिप्रहाणरूपा वर्ण्यते क्रियते च सोऽधर्म इति सर्वत्र योज्यम् । मृषा वितथा भाषा वाणी यत्र वर्ण्यते भाष्यते च, चौर्यं स्तैन्यं यत्र प्ररूप्यते विधीयते यत्र मैथुनसेवनम् अब्रह्मनिषेवणं स्त्रीसेवनमित्यर्थ प्रदर्श्यते व्य च, यत्र महालोभश्च सचित्ताचित्तवस्तुषु महाभिलाषश्च मूर्च्छातिरेकश्च निरूप्यते क्रियते च सोऽयमधर्मः पापं विज्ञेयो वेदितव्यो जिनदेशितो जिनप्ररूपित इति श्लोकद्वयार्थः ॥ १९॥ अथ धर्माधर्मयोः फलमुपदर्शयन् श्लोकचतुष्ट्रयमाह - सत्कुले जातिरारोग्यं, सौभाग्यं रूपसम्पदः । आयुर्दर्थं वरा लक्ष्मी: कीर्तिर्विद्या वरस्त्रियः ||२०|| यदन्यदपि सद्वस्तु, सुन्दरं हृदयेप्सितम् । जीवानां जायते लोके, सर्वं धर्मस्य तत्फलम् ॥२१॥ हीना जाति: सरोगत्वं, दरिद्रत्वं पराभवः । अल्पमायुः कुरूपत्वं, दौर्भाग्यं दीनवृत्तिता ॥२३॥ यदन्यदपि वस्त्वत्र, प्राणभाजां न सुन्दरम् । दुःखाय जायते लोके, तत्सर्वं पापजृम्भितम् ॥२३॥ Jain Education International ११ सत्कुले शोभनवंशे उग्रभोगादौ जातिरुत्पत्तिर्यद्भवति तद्धर्मफलमिति सर्वत्र सम्बन्धः कार्यः । आरोग्यं नीरोगता सौभाग्यं सर्वजनवल्लभत्वं, रूपसम्पदः शरीरसौन्दर्यश्रियः, आयुः जीर्वितं दीर्घं प्रलम्बं, वरा प्रधाना लक्ष्मी राज्यादिसम्पत् कीर्तिः ख्यातिः विद्या शब्दविद्यादिका पाण्डित्यमित्यर्थः, वरस्त्रियः प्रधानयोषितः यदन्यदपि यदपरमपि, सत् शोभनं वस्तु पदार्थः सुन्दरं रमणीयं हृदयेप्सितं हृदयवाञ्छितं जीवानां प्राणिनां जाय सम्पद्यते लोके जगति सर्वं समस्तं धर्मस्याऽहिंसादिरूपसदनुष्ठानस्य फलं सत्कुलजात्यादिप्राप्तिरूपं सर्वमेतद्धर्ममाहात्म्यमित्यर्थः ॥ २०-२१॥ अथाऽधर्मफलमाह For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy