________________
आचार्यश्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
कुजाति श्चाण्डालकोलिकादिका, तत्रापि समुत्पन्नो जन्तुः प्रायः पापेष्वेव रमते । कुत्सिता गतिरिति नरक[त्व]तिर्यक्त्व [ कु] मानुषत्वकुदेवत्वलक्षणा कुत्सिता गतिः, तत्रापि प्राय: प्राणिन: पापप्रिया एव भवन्ति कुशास्त्राणीति कुत्सितानि शास्त्राणि येषु धर्मव्याजेनापि प्राणिनां वधो वर्ण्यते यथा वेदेषु तथा यानि वात्स्यायनवशीकरणधातुवादादिशास्त्राणि, तान्यपि प्राय: श्रूयमाणानि पापमेव पुष्णन्ति । कुमित्राणीति पापमित्राणि, तान्यपि पापेष्वेव प्रेरयन्तीति । कुकलत्रादिपरिच्छद इति, कुत्सितः पापप्रियः कलत्रादिपरिवारः तेन धार्मिकोऽपि लादपि पापकर्मसु प्रेर्यत इति ॥ १५ ॥
१०
कुश्रुतिरिति कुत्सितागमश्रवणं, तदपि प्राणिवधादौ प्रेरयतीति । कुमतिरिति कुत्सिता मति:, कुमतिरनर्थपरम्पराप्रवर्तिका, तयाप्यधर्म एव प्राणी प्रवर्त्यत इति । कुविद्येति कुत्सिता विद्या खड्गधनुर्वेदविद्यादिका, सापि पापप्रवर्तिकैव । कुत्सितो गुरु रिति कुधर्माचार्य:, सोऽपि [धर्म] व्याजेनाधर्ममेव कारयतीति, अत्यन्तमुत्कटो राग इति सचेतनाचेतनवस्तुषु नितरामभिष्वङ्गः, स च पापहेतुत्वेन प्रसिद्ध एव । एवं द्वेषो मोह : कुग्रहश्च, नवरं द्वेषो ऽनिष्टवस्तुषु रोषप्रसरः, मोहः पुनरज्ञानं ममत्वं वा, कुग्रहो यत्र कुत्रापि शोभनेऽशोभने वा वस्तुनि लग्नस्तत्र बद्धाग्रहत्वमिति ॥१६॥
महारम्भ इति महान् कृष्याद्यारम्भः, अयमपि पापहेतुत्वेन प्रसिद्ध एव । महादम्भो नानाकूटकपटैरत्यन्तमपरेषां वञ्चनं पापहेतुत्वमस्य प्रकटमेव । महालोभो महामदश्च प्रतीतौ, कुनीतौ प्रीतिरित्यन्यायप्रियत्वमित्यर्थः । इत्याद्या एवं प्रभृतयः, आदिशब्दान्महापरिग्रहादिग्रहः, बहवो भूयांसः पापहेतवः पापकारणानीति । इह च कुदेशादयो बाह्या अधर्महेतवः, रागादयः पुनरन्तरङ्गा इति स्वधिया भावनीयमिति श्लोकषट्कार्थः ॥ १७॥
अथ धर्माधर्मयोः स्वरूपमुपदर्शयन् श्लोकद्वयमाह–
यत्राहिंसावच: सत्य - मस्तेयं ब्रह्मसेवनम् ।
Jain Education International
सन्तोषश्च स विज्ञेयो, धर्मः सर्वज्ञभाषितः || १८ || यत्र हिंसा मृषा भाषा, चौर्यं मैथुनसेवनम् । महालोभश्च सोऽधर्मो, विज्ञेयो जिनदेशितः ॥ १९ ॥ |
यत्रेति धर्मेऽहिंसा दया सर्वसत्त्वेषु वर्ण्यते क्रियते च स धर्मो विज्ञेय इति क्रिया सर्वत्र योज्या |
For Private & Personal Use Only
www.jainelibrary.org