________________
अधिकार १ / श्लोक १२-१७ धर्माऽधर्मयो: हेतवः
न धर्मं साधयितुमलमिति । तथा आरोग्यमिति अरोगस्य भाव आरोग्यमिदमपि धर्मस्य बाह्यं निमित्तं, यतो दीर्घायुरपि जन्तु: सरुक् धर्मं कर्तुं न समर्थ इति । तथा बुद्धिपाटव मिति बुद्धेः प्रज्ञाया: पाटवं दक्षत्वं बुद्धिपाटवं तीक्ष्णधिषणत्वमित्यर्थः, एतच्च धर्मस्यान्तरङ्गमङ्गं यतो दीर्घायुरपि नीरोगोऽपि सदबुद्धिविकल: प्राणी न धर्मकर्माणि सम्यकर्तु पारयति ॥१२॥ तथा कल्याणमित्रसंसर्ग: कल्याणं सुखें, तत्कारीणि मित्राणि, तैः सह संसर्ग: . सम्बन्ध: कल्याणमित्रसंसर्ग: सदुपदेशदायिजनसम्पर्क इत्यर्थः । कल्याणमित्रसंसर्गो हि धर्मस्य बाह्यं प्रधानं कारणमिति । तथा पापमित्रविवर्जन मिति, पापकारीणि मित्राणि पापमित्राणि, तेषां विवर्जनं परिहरणं पापमित्रविवर्जनं, पापमित्रसङ्गतो हि पापेष्वेव रमते, न धर्मकर्मसु तत्सङङ्गपरिहारी तु विबन्धकाभावात् सुखेनैव धर्मं प्रतिपद्यते, अत: पापमित्रविवर्जनमपि बाह्यं धर्मनिबन्धनमिति, तथा शुश्रूषा श्रोतुमिच्छा शुश्रूषा सदागमस्येति गम्यते । सुश्रुतिश्चैवेति, चैवेति समुच्चये, शोभना श्रुतिः सुश्रुति: सम्यगागमश्रवणं, सुकलत्रादिपरिच्छद इति, शोभनानि कलत्राणि सुकलत्राणि, तान्यादिर्यस्य सुपुत्रसुमित्रसुभ्रातृसुस्वजनादिकस्य सुकलत्रादिः, स चादौ(सौ) परिच्छदश्च परिवारश्च सुकलत्रादिपरिच्छदः, अयमपि धर्मस्य बाह्यो हेतु: यत: शोभनेषु कलत्रपुत्रादिष्वाज्ञाविधेयतया सुखं धर्म: प्रतिपत्तुं कर्तुं च शक्यत इति ॥१३॥
- तथा अन्तरङ्गद्विषां मान्द्य मिति, अन्तरङ्गद्विषो रागादयो ज्ञानावरणादिकर्माणि च, तेषां मान्द्यं मन्दता प्रतनुत्वमित्यर्थः तथा औदार्यम् उदारस्य भाव औदार्यं दानरसिकत्वमित्यर्थः, पापभीरुता पापेभ्य: पापकर्मभ्यो भीरुता सभयत्वं पापभीरुता सुनीतौ प्रीति रिति शोभना चासौ नीतिश्च सुनीति: सुन्यायस्तस्यां सुनीतौ प्रीति: प्रमोदः, इत्याद्या एवमादय:, आदिशब्दाद्दाक्षिण्यसौजन्यपरोपकर्तृत्वौचित्यकरणत्वादिपरिग्रह: बहवः प्रभूता धर्महेतवो धर्मकारणानि, इह च बुद्धिपाटवं शुश्रूषा सुश्रुती रागादिमान्द्यम्, औदार्यं पापभीरुता सुनीतिप्रीतिरित्येते सप्तान्तरङ्गा धर्महेतवः, मानुषं सुदेश: सुजाति: सुकुलं सुरूपं दीर्घायुष्कमारोग्यं कल्याणमित्रसंसर्गः, पापमित्रविवर्जनं, सुकलत्रादिपरिच्छदश्चेत्येते दश बाह्या धर्महेतव इति श्लोकत्रयार्थः ॥१४॥
अथाधर्महेतूनाह-तत्र कुदेश इत्यनार्यदेशः, तत्राधर्म एव प्रवर्तते, न धर्मस्य नामापि ज्ञायते, अत: कुदेश: सर्वेषामपि प्राणिनामधर्महेतुरेव, एवं सर्वत्राधर्महेतुत्वं भावनीयमिति कुत्सितोवास इति, यत्र बहवो मद्यमांसाशिन: पापिष्ठलोका वसन्ति स कुत्सितो वास:, आर्यदेशेऽपि तथाविधग्रामादौ वसतां प्रायो न धर्मप्राप्तिरिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org