________________
आचार्यश्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
मानुष्यं मानुषत्वं धर्मस्य बाह्यो हेतुर्भवतीति सर्वत्र क्रियायोग: कर्तव्यः । इदं चातीव दुर्लभत्वेन सम्पूर्णधर्मकर्मकारणत्वेन च धर्मप्राप्तौ बाह्यहेतुत्वेन प्रथममुपन्यस्तमिति, दुर्लभत्वं चास्य चुल्लकादिदृष्टान्तै वनीयं, ते चामी
चुल्लग१ पासगर धन्ने३, जूए४ रयणे य५ सुमिण६ चक्के य७ । चम्म८ जुगे९ परमाणू१० दस दिढ्ता मणुयलंभे ॥१॥
एतत्कथानकानि पुनरतिक्षुण्णत्वान्न लिख्यन्तेऽस्माभिः, आवश्यकादिभ्य एवावसेयानि। तथा शोभनो देश इति, शोभन: प्रधानो देशो जनपद आर्यदेश इत्यर्थः, सोऽपि धर्मस्य बाह्यो हेतुरिति, स च शोभनो देश: सार्धपञ्चविंशतिजनपदात्मको यत उक्तम्
रायगिह मगह १ चंपा, अंगा २ तह तामलित्ति वंगा य ३ । कंचणपुरं कलिंगा ४, वाणारसी चेव कासी य ५॥१॥ साकेय कोसला ६ गयउरं च कुरु ७ सोरियं कुसट्टा य । कंपिल्लं पंचाला ९, अहिछत्ता जंगला चेव १० ॥२॥ बारवई य सुरट्ठा ११, मिहिल विदेहा य १२ वच्छ कोसंबी १३ । नंदिपुरं संडिल्ला १४, भद्दिलपुरमेव मलया य १५ ॥३॥ वइराड वच्छ १६ वरणा-वच्छा १७ तह मत्तियावइ दसन्ना १८ । सुत्तिमईया चेई १९, वीअभयं सिंधुसोवीरा २० ॥४॥ महुरा य सूरसेणा २१, पावा भंगीय २२ मासपरिवट्टा २३ । सावत्थी य कुणाला २४, कोडीवरिसं च लाटा य २५ ॥५॥ सेयवियावि य नयरी, केयइअद्धं च आरियं भणियं । जत्थुप्पत्ति जिणाणं, चक्कीणं रामकण्हाणं ॥६॥
_ [प्रज्ञापना सूत्र पद १ सूत्र १०२, गा.११२-११७]
तथा शुभा जाति: शुभं कुलमिति, तत्र मातृसमुत्था जाति:, सापि शुभा धर्मस्य बाह्यो हेतुः, पितृसमुत्थं कुलं, तदपि शुभं तथैव । अथवा ब्राह्मणक्षत्रियवैश्यशूद्रस्वरूपा जाति:, उग्रभोगज्ञातईक्ष्वाकुकौरव्यहरिवंशादिकं कुलमिति । तथा सुरुप मिति शोभनं रूपं सुरूपमविकलपञ्चेद्रियत्वमिदमपि धर्मस्य हेतु:, यस्मादनुपहतपूर्णपञ्चेन्द्रियत्व एव जीव: सम्पूर्णधर्मयोग्यो भवति, न त्वितर इति । तथा दीर्धमायुष्क मिति, दीर्घ वर्षशतादिजीवनत्वेन प्रलम्बमायुष्कं जीवितम्, एतदपिधर्मस्य बाह्यं कारणम्, यस्मादल्पायुर्जीवो मानुष्यादिसाम्रगींप्राप्यापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org