________________
अधिकार १ / श्लोक १२-१७ / धर्माऽधर्मयो: हेतवः
मोहच्छवीस एसा, एसा पुण होइ नामचउतीसा। नरयगई तिरियगई, एसि चियं आणुपुब्वीओ॥८॥ एगिंदियाइ चउरो, जाई बीयाइ कम्मसंघयणा । एवं संठाणावि य, वनाइचउक्कमपसत्थं ॥९॥ उवघायं कुविहगगई, थावरसुहुमं तहा अपज्जत्तं । . साहारणाऽथिराऽसुभ-मसुभगदूसर अणाइजं ॥१०॥ अजसकित्ती य तहा, तिण्हं एकेक्कियत्ति अपसत्था । गोयाउवेयणिज्जा-णुपावमेकेकिया पगई ॥११॥ नीयं गोत्तं निरया-उयं च असायवेयणिज्जं च । एया सव्या मिलिया बासीई पावपगईओ ॥१२॥
तथा अवयं पापमेव हिंसादि अधर्महेतुकत्वेन, तदप्यधर्म: दुष्कृतंदुष्टं कृतं दुष्कृतं दुरध्यवसायनिमित्तकत्वादेतदप्यधर्म: दुरनुष्ठानंदुष्टं हिंसादिमहारम्भादिरूपमनुष्ठानमशुभपरिणामप्रवृत्तिकत्वादिदमप्यधर्म एव । इत्याद्या एवंप्रभृतयः,आदिशब्दादुश्चरितदुश्चेष्टितादिग्रहः, शब्दा ध्वनयस्तुल्यार्था एकार्था भवन्तीति श्लोकद्वयसमासार्थः ।।११॥
अथ धर्माधर्मयोर्बाह्यान्तरहेतूनुपदर्शयन् श्लोकषट्कमाह
मानुष्यं शोभनो देश:, शुभा जाति: शुभं कुलम् । सुरूपं दीर्घमायुष्य-मारोग्यं बुद्धिपाटवम् ॥१२॥ कल्याणमित्रसंसर्गः, पापमित्रविवर्जनम् । शुश्रूषा सुश्रुतिश्चैव, सुकलत्रादिपरिच्छदः ॥१३॥ अन्तरङ्गद्विषां मान्द्य-मौदार्यं पापभीरुता । सुनीतौ प्रीतिरित्याद्या, बहवो धर्महेतवः ॥१४॥ कुदेश: कुत्सितो वास:, कुजाति: कुत्सिता गतिः । कुशास्त्राणि कुमित्राणि, कुकलत्रादिपरिच्छदः ॥१५॥ कुश्रुति: कुमतिश्चैव, कुविद्या कुत्सितो गुरुः । अत्यन्तमुत्कटो रागो, द्वेषो मोहश्च कुग्रहः ॥१६॥ महारम्भो महादम्भो, महालोभो महामदः । कुनीतौ प्रीतिरित्याद्या, बहव. पापहेतवः ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org