________________
आचार्यश्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
अगुरुलहु पराघायं ऊसासं आयवं च उज्जोयं । सुपसत्था विहगगई, तसाइदसगं च निम्माणं ॥५॥ तस बायर पज्जत्तं, पत्तेय थिरं सुभं च सुभगं च । सूसरआएज्जजसं, तसाइदसगं इमं होइ ॥६॥ तित्थयरेणं सहिया, सत्ततीसं तु नाम पगईओ। तिन्नि य आऊणित्ति य, सुरनरतिरियाउभेएण ॥७॥
तथा वृष: वृषशब्देन धर्मोऽभिधीयते. श्रेय: श्रेय:कर्म प्रशस्यं सदनुष्ठानमेव। सद्वृत्तं सुकृतं च तदेव। शुभस्य पुण्यवद्व्याख्या। सदनुष्ठानमिति, सच्च तदनुष्ठानं चशुभव्यापाररूपं सदनुष्ठानम् इत्याद्या एवमाद्या:, आदिशब्दात् सच्चारित्रं सुचरितं चरणं निवृत्तिर्विरतिनियम: संयमश्चैवमादयो द्रष्टव्या:, शब्दा ध्वनयस्तुल्यार्थवाचका एकार्थवाचका इति । इह च कथञ्चिद्भेदेऽपि तुल्यार्थत्वेन विवक्षितत्वान्न पर्यनुयोग: कर्तव्य इति श्लोकार्थः ॥१०॥
अधर्मो धर्मविपक्षस्तस्य व्याख्यानं पूर्ववद्विपक्षत्वेनैव कर्तव्यम् । किल्विषमित्यधर्महेतुकत्वादतीवनिन्द्यं कर्म अधर्मशब्दाभिधायि भवतीति सर्वत्र योज्यम् पापमिति जीवस्वरूपपांशनान्मलिनकारित्वात् पापं पापकर्मप्रकृतयस्ताश्चेमा:
नाणंतरायदसगं, दंसण नव मोहपयडिछन्वीसं । नामस्स य चउतीसं, तिण्डं एकेकपावाओ ॥१॥ मइसुयओहीमणपज-वाण तह केवलस्स आवरणं । नाणावरणं कम्म, पंचविहं होइ एवं तु ॥२॥ जं दाणलाभभोगो-वभोगविरयाण विग्घसंजणणं । ते णंतरायकम्मं, पंचविहं वन्नियं समए ॥३॥ चक्खु अचक्खू ओही वरकेवलदंसणाण आवरणं । चउरो पंच य.निद्दा, सण उवओग विग्घत्था ॥४॥ निदा निहानिदा, पयला अन्ना उ पयलपयलत्ति। थीणद्धी य तहेवं, सणवरणं भवे नवहा ॥५॥ मिच्छत्तमोहणीयं, सोलसभेयं कसायमोहणियं । कोहाईण चउण्हं-ऽणंताइचउन्विहत्तणओ ॥६॥ इत्थीपुरिसनपुंसग-वेया हासो य रइ य अरई य । सोगो भयं दुर्गच्छत्ति, नवविहं इयरमोहणियं ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org