SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ धर्माऽधर्मस्वरूपाधिकार: १ अथ प्रथममधिकारमभिधित्सुर्धर्माधर्मयोरेकार्थिकशब्दान् श्लोकद्वयेनाह धर्मः पुण्यं वृष: श्रेयः, सद्वृत्तं सुकृतं शुभम् । सदनुष्ठानमित्याद्याः, शब्दास्तुल्यार्थवाचकाः ॥१०॥ अधर्म: किल्बिषं पाप-मवद्यं दुष्कृतं तथा । दुरनुष्ठानमित्याद्याः, शब्दास्तुल्यार्थवाचकाः ॥११॥ तत्र दुर्गतिपतज्जन्तुधारणाद्धर्मः, तदुक्तं दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥२॥ स च जीवस्य शुभपरिणाम:, कारणे कार्योपचारेण तत्त्वार्थश्रद्धानं चैत्यवन्दनादिक्रियाकलापरूपं बाह्यमनुष्ठानं चोच्यते, यथा-तण्डुलान् वर्षति पर्जन्य:, पर्जन्यो हि जलं वर्षति, तेन च तण्डुला निष्पद्यन्ते, ततो जले कारणभूते तण्डुला: कार्यभूता उपचर्यन्त इति । एवं धर्मोऽपि शुभाध्यावसायरूप: कारणं, सदनुष्ठानं च क्रियारूपं कार्यं, तत्र शुभाध्यवसाये कारणभूते सदनुष्ठानं कार्यभूतमुपचर्यते, अयमभिप्राय: सदनुष्ठानं क्रियारूपं धर्मशब्देन व्यपदिश्यत इति, एवं सर्वत्र कार्यकारणभावो वेदितव्यः । तथा धर्महेतुत्वात्पुण्यमपि धर्म:, पुण्यं च पुण्यप्रकृतयः, ताश्चेमा: सायं उच्चागोयं, सत्तत्तीसं च नाम पगईओ। तिनि य आऊणि तहा, बायालं पुन्नपगईओ ॥१॥ सत्ततीसं नामस्स, पगईओ पुन्नमायता य इमा। मणुयगइ तयणुपुब्बी, देवगइ तयणुपुन्वी य ॥२॥ पंचिंदियजाई तह, देहाणं पंचयं च ते य इमे । ओरालियवेउन्विय, आहारय तेय कम्मइगा ॥३॥ अंगोवंगा तिन्नेव, आइमा आइमं च संघयणं । समचउरंसं अणहा, वन्न रसा गंध फासा य ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy