________________
आचार्यश्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
दया-दान-दाक्षिण्य-सौजन्यसदौदार्य-गाम्भीर्य-विनय-नय-प्रशमादिसत्पुरुषगुणगणस्वरूपाणि च धर्मरत्नानि, तेषां करण्डक इव करण्डकस्तं धर्मरत्नकरण्डकं वक्ष्ये, इति श्लोकचतुष्टयार्थः ॥४॥
अथ प्रकरणाधिकारास्तत्सङ्खयां च बिभणिषुः श्लोकपञ्चकमाह
धर्माधौ १ जिने पूजा २, गुरुभक्तिरकृत्रिमा ३। परोपकारः ४ सन्तोष: ५, संसारासारतामति: ६ ॥५॥ शोकशङ्को: समुच्छेद ७श्चेतसो निष्कषायिता ८ । सर्वलोकविरुद्धानां, दूरत: परिवर्जनम् ९ ॥६॥ दानं१० शीलं११ तपो१२ भाव:१३, शिष्टसङ्गो१४ विनीतता१५। विषयेषु च वैमुख्यं १६, विवेको १७ मृदुभाषिता १८ ॥७॥ सर्वधर्मशिरोरत्नं, दयाधर्मः सदोत्तमः १९ । विधिवत्सङ्घपूजा च २०, सर्वत्रामी न सद्गुणाः ॥८॥ धर्माधर्मादिकामेनां, सङ्घपूजावसानिकाम् । वक्ष्येऽहमधिकाराणा-मानुपूर्येह विंशतिम् ।।९।।
तत्रधर्माधर्मांप्रतीतौ, तावत्र प्रकरणे भणिष्येते इति क्रिया सर्वत्र योज्या। जिने पूजेत्यादिचतुष्टयं सुगम, संसारासारतामति: इति संसारस्यासारता संसारासारता, तस्यां मति: संसाराऽसारतामतिः, सा चाऽत्र भणिष्यते, शोकशङ्को : शोककीलस्य समुच्छेद: सर्वथा विनाश: चेतस श्चित्तस्य निष्कषायिता कषायकालुष्यरहितत्वं, सर्वलोकविरुद्धानां सर्वलोकस्य सकलशिष्टजनस्य विरुद्धानि विरोधवन्ति कर्माणि सर्वलोकविरुद्धानि, परुषता वा तेषां दूरतो दूरेण परिवर्जनं परित्याग इति, इत: पदनवकं सुगममेव, तथा सर्वधर्मशिरोरत्न मिति सर्वधर्माणां शिरोरत्नमिव चूडामणिरिव दयाधर्मो दयैव धर्मो दयाधर्मः, सदा सर्वकालमुत्तमः प्रधान इति, विधानेन विधिवद् विधिपूर्वकमित्यर्थः, सङ्घपूजा साधु-साध्वी-श्रावक-श्राविकालक्षणचतुर्विधश्रमण[प्रधान]सङ्घसपर्या कर्तव्येति तात्पर्यमिति, सर्वत्र सर्वप्राणिष्वमी एते न नैव सद्गुणा: शोभनगुणा भवन्तीति गम्यते तथा धर्माधर्मावादी यस्या: सा धर्माधर्मादिका, तां धर्माधर्मादिकामेनामिमां, सङ्घपूजा अवसानं पर्यन्तो यस्या: सा सङ्घपूजावसानिका, तां वक्ष्ये भणिष्याम्यह मधिकाराणां प्रस्तावाना मानुपूर्त्या परिपाट्या इहाऽत्र प्रकरणे विंशतिं विंशतिप्रमाणानधिकारानिति भाव: इति श्लोकपञ्चकसमासार्थः ॥५-९||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org