SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्लोक १-४ मङ्गलाचरणम् क्रिया, ततश्च नौमि स्तौमि, कं कर्मतापन्नं ? श्रीनाभिनन्दनं नाभेर्नाभिकुलकरस्य नन्दनः पुत्रो नाभिनन्दन:, श्रिया लक्ष्म्योपलक्षितो नाभिनन्दन: श्रीनाभिनन्दन: युगादिदेव इत्यर्थस्तं, किंविशिष्टं? सर्वनीतिप्रणेतारं, सर्वाश्च ता नीतयश्च लोकलोकोत्तरव्यवहारा: सर्वनीतयस्त प्रणेता स्रष्टा सर्वनीतिप्रणेता तं पुनरपि किंविशिष्टं ? सर्वधर्मप्रदर्शकं सर्वे च तेऽस्तिधर्मश्रुतधर्मचारित्रधर्मग्रामधर्मादयो धर्माश्च सर्वधर्माः तेषां प्रदर्शकः प्रकाशकः सर्वधर्मप्रदर्शकस्तं, भूयोऽपि किंभूतं? सर्वविद्यालतामूलं, सर्वाश्च ता विद्याश्च शब्दविद्याप्रभृतयः प्रज्ञप्त्यादयश्च सर्वविद्यास्ता एव वल्लयः सर्वविद्यालतास्तासां मूलं कारणं सर्वविद्यालतामूलं, तं श्रीनाभिनन्दनं नौमीति श्लोकार्थः ॥१॥ तथा सर्वकर्मविनिर्मुक्तम् इत्यत्र श्लोके वन्दे इति क्रिया, कं वन्दे ? वीरं, किंविशिष्टं ? जिनेश्वरं जिना: केवलमनःपर्याया-ऽवधिज्ञानिनश्चतुर्दशदशनवपूर्वविदश्च तेषामीश्वरो जिनेश्वरस्तं, पुनरपि किंविशिष्टं ? सर्वकर्मविनिर्मुक्तं सर्वकर्माणि ज्ञानावरणादीनि तेभ्यो विशेषेण बन्धोदयोदीरणापेक्षया नितरां सत्तापेक्षया मुक्तः सर्वकर्मविनिर्मुक्तस्तं पुनरपि किंविशिष्टं ? सर्वलोकैकभास्करं सर्वश्चासौ लोकश्च सर्वलोकस्तस्य प्रकाशकारित्वादेकोऽद्वितीय भास्कर इव भास्करस्तं, भूयोऽपि किंविशिष्टं ? सर्वामरनरैर्वन्द्यं सकलसुरनराणां स्तुत्यमिति श्लोकार्थः ॥ २॥ ३ तथा अन्यानपि अपरानप्यजितादीन् महाविदेहजादींश्च नमस्यामि नमस्करोमि श्रीमतो लक्ष्मीवतस्तीर्थनायकांस्तीर्थाधिपतीन्, सिद्धांश्चेत्यादौ चकाराः समुच्चयार्था:, ततश्च सिद्धांश्च सकलकर्मक्षयेण निष्ठितार्थान्, सूरींश्चाचार्यांश्च वाचकांश्चोपाध्यायांश्च मुनीन् साधून् तथा तेनैव प्रकारेण नमस्यामीति श्लोकार्थः || ३ || ततश्च एवं कृतनमस्कार एवममुना प्रकारेण पूर्वोक्तेन कृतो विहितो नमस्कारः प्रणाम येन मया स कृतनमस्कारोऽहं स्वान्योपकृतिवाञ्छया स्वस्यात्मनोऽन्येषां च परेषामुपकृतिरुपकारस्तस्यां वाञ्छा इच्छा स्वान्योपकृतिवाञ्छा तया स्वान्योपकृतिवाञ्छया, अनेन कर्तुः श्रोतुश्चानन्तरं प्रयोजनमुक्तं, परंपरं तु द्वयोरपि मुक्तिरिति वक्ष्येऽभिधास्ये प्रकरणं लघुशास्त्रविशेषं नाम्ना नामधेयेन धर्मरत्नकरण्डकं, धर्मस्य शुभाध्यवसायरूपस्य सम्बन्धीनि रत्नानीव रत्नानि, पुण्यप्राणिभिरेव प्राप्यत्वादचिन्त्यचिन्तामणिकल्पत्वेन सकलसमीहितार्थप्रदायकत्वाच्च ज्ञान- दर्शन चारित्ररूपाणि, दान- शील- तपो भावना स्वभावानि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy