________________
आचार्यश्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
अस्य व्याख्या-इह हि शिष्टा: क्वचिदभीष्टे वस्तुनि प्रवर्तमाना: सन्तोऽभीष्टदेवतानमस्कारपुरस्सरमेव प्रवर्त्तन्ते, यत उक्तं - अवतरण- प्रेक्ष्य पूर्वकृतां प्रायः, प्रारम्भेषु चतुष्टयम् ।
वक्तुं युक्तं विनेयानां, वृत्त्युत्साहनिवन्धनम् ॥१॥ मङ्गलं शास्त्रसम्बन्धः, शरीरं सप्रयोजनम् । चतुष्टयमभिप्रेतं, प्रत्यूहापोहि मङ्गलम् ॥२॥ इत्यादि,
अयमप्याचार्यों न हि न शिष्ट इत्यत: शिष्टसमयपरिपालनाय, तथा श्रेयांसि बहुविघ्नानि भवन्तीत्युक्तं च
श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, कापि यान्ति विनायकाः ॥१॥ इति,
इदं च प्रकरणं धर्माधर्मादिफलप्रतिपादकत्वेन सम्यग्दर्शनज्ञानादिहेतुत्वात् श्रेयोभूतं वर्तते, अतो विघ्नविनायकोपशान्तये, तथा प्रयोजनादिरहिते प्रेक्षावन्तो न प्रवर्तन्ते, तदुक्तं
सर्वस्यैव हि शास्त्रस्य, कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोक्तं, तावत्तत्केन गृह्यताम् ॥१॥ तथा-सिध्धार्थं सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥२॥
अत: प्रयोजनादिप्रतिपादनार्थं च, तत्र सर्वनीतिप्रणेतारम् इत्यादिश्लोकत्रयेणाभीष्टदेवतानमस्कारमाह, अयमेव चोक्तन्यायेन प्रत्यूहप्रतिहतिहेतु:, एवं कृतनमस्कार इत्यादिना श्लोकेन प्रयोजनादित्रयमुक्तं, तथाहि -स्वान्योपकृतिवाञ्छया इति वदता प्रयोजनमुक्तं, वक्ष्ये प्रकरणं नाम्ना धर्मरत्नकरण्डकम् इत्यनेन पुनरिदं प्रकरणमभिधेयतया निर्दिष्टम्, अभिधानाभिधेयलक्षणश्च सम्बन्ध इति समुदायार्थ: अवयवार्थो व्याख्यालक्षणानुरोधाद्योजनीयस्तच्चेदं
संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य पड्विधा ॥१॥
इह च गमनिकामात्रफलत्वात्प्रस्तुतारम्भस्य प्राय: संहितादिचर्चव्यपोहेन भावार्थकथनमेव क्रियते, शेषव्याख्यालक्षणयोजना तु स्वयमेव सुधिया वर्णनीया। तत्र सर्वनीतिप्रणेतारम् इत्यत्र नौमीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org