________________
श्री शङ्केश्वरपार्श्वनाथाय नमः
श्रीजिनाय नमः
पूज्यपाद-सिद्धि-विनय-भद्र-विलास-ॐकार-भद्रङ्कर-अरविन्दसूरि-सद्गुरुभ्यो-नम:
आचार्यप्रवर श्रीमद् वर्धमान सूरिनिर्मित:
स्वोपज्ञटीकासमन्वित
धर्मरत्नकरण्डकः
टीका- प्रणम्य श्रीजिनं वीरं, वीरितान्तरशात्रवम् । कल्पद्रुममिवानल्प-सङ्कल्पितफलप्रदम् ।।१।।
यथाबोधं विबुद्धीनां, सुखसम्बोधहेतुना । वक्ष्ये वृत्तिं समासेन, धर्मरत्नकरण्डके ।।२।।
तत्र तावदादावेव प्रकरणकार: शिष्टसमयप्रतिपालनाय प्रत्यूहव्यूहव्यपोहकृतेऽभीष्टदेवतानमस्काररूपभावमङ्गलाभिधानार्थं प्रयोजनादित्रयप्रतिपादनार्थं च श्लोकचतुष्टयमुपन्यस्तवान्, तद्यथा
मूल- सर्वनीतिप्रणेतारं, सर्वधर्मप्रदर्शकम् ।
सर्वविद्यालतामूलं नौमि श्रीनाभिनन्दनम् ॥१॥ सर्वकर्मविनिर्मुक्तं, सर्वलोकैकभास्करम् । सर्वामरनरैर्वन्द्यं, वन्दे वीरं जिनेश्वरम् ॥२॥ अन्यानपि नमस्यामि, श्रीमतस्तीर्थनायकान् । सिद्धांश्च सर्वसूरीश्च, वाचकांश्च मुनींस्तथा ॥३॥ एवं कृतनमस्कारः, स्वान्योपकृतिवाञ्छया। वक्ष्ये प्रकरणं नाम्ना, धर्मरत्नकरण्डकम् ॥४॥
१BPJCD हेतवे-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org