________________
अधिकार १८ / श्लोक ३३७-३३८ / अमृतमुखीवृद्धाकथा
३७९
च नीचजनचेष्टितं, 'कलत्रस्नेहविधुरेण मया खरपरुषवचनैर्निर्भर्सिता जननी, भणिता च किं ते गृहतप्त्या? उदरं भृत्वा तूष्णीका तिष्ठ, तत् श्रुत्वा मन्युभरभृतमानसाऽनवरतमुक्तस्थूलाश्रुजालका गृहादपि निर्गता, उपेक्षिता च मया, 'समुत्पन्नवैलक्ष्यया च तया प्रक्षिप्त आत्मा नगरकूपे, पतनशब्दश्रवणसम्भ्रान्तमानसा मिलिता: कृत्वा कोलाहलं नरनारीगणा:, विगतप्राणाचसासमुत्तारिता कूपात्, तत्क्षणं लोकैर्विज्ञातवृतान्तै:, धिक्कारितोऽहं नागरिकलोकैः परिहत: स्वजनवर्गेण, न भुञ्जते मम गृहे ब्राह्मणाः, न गृह्णन्ति भिक्षां पाखण्डिनः । ततोऽहं विषादमापन्नो मरणमेव मे समुचितमिति मन्यमानो निर्गतो नगरात्, गत: स्तोकं भूमिभागं, दृष्टः पूर्वपरिचितगङ्गाधराभिधतापसेन प्रश्नितश्च तेन वत्स चण्डरुद्र! किं कारणं ? विमनस्को विच्छायवदन इव लक्ष्यसे ? कथितश्च मया मरणाध्यवसायपर्यवसानो निजो व्यतिकरः, तापसेन भणितं वत्स ! धर्म एव जननीवधजनितपापपङ्कप्रक्षालनस्वच्छसलिलसन्निभ: शेषदोषनिर्घातनसमर्थश्च। तदहो तमेव धर्मं कुरुष्व। येन ते शुद्धिर्भवति, प्रतिपन्नं च मयातद्वचनं, गतस्तापस:, मयापि गृहीत्वा तापसव्रतमतिनिदेन शून्यारण्यमिदमङ्गीकृतम्।
एतत् श्रुत्वा विषण्णो नागदत्तः, गृहीत: पश्चात्तापेन, चिन्तितं च तेन मयाप्यपकर्णिता जननी, विनाशितो गृहभार:, मरणमेव मम शरणमिति मन्यमानो गतस्तापसजनसाधितसामर्थ्य सर्वकामितनामपत्तनं, चिन्तितुं प्रवृत्तो [यथा] दुर्लभा पुनरपि सर्वकामितपत्तनसम्प्राप्ति:, जन्मान्तरेऽपि मा जननीजनकयोरपमानकारकोऽहमभूवमिति कृत्वा प्रणिधानमत्र निपतामीति विचिन्त्य स समारूढः सर्वकामितपत्तनशिखरिशिखरं, दृष्टोऽसौ मन्त्रसाधनार्थमागतेन योगसिद्धयोगीश्वरेण, लक्षितश्चतेन तदभिप्राय:, सम्भाषितो मधुरवचनेन, भणितश्च भद्र ! कस्त्वं ? किं वा कर्तुमारब्धः? निवेदितो नागदत्तेन सर्वोऽपि निजव्यतिकरः, योगसिद्धेन भणितं भद्रक ! बुधनिन्दित आत्मवध:, विरम त्वममुष्मान्मरणाध्यवसायात्, गत्वा कुरु निजजनन्या: पानभोजनस्नानशयनाशनादिविनयकरणेन परमप्रतिपत्तिं, नष्टद्रविणजातविषये व्यवसाय एव सङ्गतो, न मरणं, नागदत्तेन भणितं भगवन् ! शोभनं त्वया समादिष्टं, किन्तु निष्कासितं मया निजगृहात्प्रभूतं द्रविणजातं नाशितं च, साम्प्रतमर्थेन विना व्यवसायेनापि न तावद्विटपितुं तीर्यते, न निपुणोऽपि कोलिक: सूत्रं विना पटकरणसमर्थः । योगसिद्धेन भणितं भद्र! दृष्टो मया विनापि सूत्रेण क्रियमाण: पट:, नागदत्तेन भणितं कथं ?
तेन भणितं गतोऽहमेकदा प्रयोजनवशादुत्तरापथं, तत्राटवीशीर्षे मिलित एक: कुलपुत्रक:, भणितश्चाहमनेन भद्र ! आगच्छ सममेव व्रजाव:, साम्प्रतं शिशिरकालो, हिमाचलभूमिरेषा,
१ कलत्रस्नेहलवितेन-BIC 'कलत्तसिणेह लंघिएण' इति मणोरमा कहा मध्ये पृ. ३६ ॥ २ समुत्पन्नविलक्षया-BICI
३ BCI विटप- विस्तार । तावदाजीवितुं पार्यते-मु.। Jain Education International For Private & Personal Use Only
www.jainelibrary.org