________________
३७८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
"ववसायवज्जियाणं, संतावि सिरी पणस्सई चेव । होइ असंतावि धुवं ववसायपराण पुरिसाणं" ॥ " पुव्वंपुरिसज्जियाए, लच्छीए कुणइ जो नरो गव्वं । सो गयलज्जो धणियं, भणिओ अहमाहमो चेव" ॥३॥ अप्प - परोभयसुहया, भुज्जंती तह परेसिं दिज्जन्ति । निययपरक्कमपत्ता, भिक्खावियं किं पुणो लच्छी ॥४॥
तदार्यपुत्र ! क्रियतां कालोचितं, गम्यतां देशान्तरं, स्थितमेतच्चित्ते नागदत्तस्य, गतो निजगृहे । विज्ञप्ता जननी, यथा मातर् ! विसर्जय मां देशान्तरे द्रव्योपार्जननिमित्तं, प्रतिषिद्धो जनन्या, तथापि न तिष्ठति, ततो रोदितुं प्रवृत्ता, नागदत्तेन भणितं मातरलं रुदितेन, शीघ्रमेवाहमागच्छामीत्यादि पन् प्रतिषिद्धोऽपि सन स्थितः, कृता गमनसामग्री, निर्गमदिवसे सविशेषं निवार्यमाणोऽप्यपकर्ण्य जननीं चलितो नागदत्तः स्थितो नगरस्य बहिष्टात्, भणितोऽनङ्गसेनया, आर्यपुत्र ! त्वया विना शून्यमिव नगरमिदमहं मन्ये, यदि भणसि तदा त्वया सह समागच्छामि, प्रतिपन्नमनेन, क्रमेण वहन् सार्थः प्रविष्टः कान्तारे दुरुत्तारे, व्यालोडितो भिल्लैः, गृहीतं द्रव्यजातं भयभ्रान्तलोचन एकाक्येव प्रविष्टो नंष्ट्वा शून्यारण्यं नागदत्तः । अनङ्गसेनापि बन्दिग्राहं गृहीत्वा पल्लीपतिना पल्लीं प्रापिता, नागदत्तेनापि कान्तारमध्ये पर्यटता दृष्ट एकत्र प्रदेर्शे एकस्तापसकुमारक:,
प्रणम्य पृष्टश्च कुत्र युष्माकं तपोवनं ? तेन भणितमितो नातिदूर एव, गतस्तेन सह तापसाश्रमं नागदत्तः, वन्दितः कुलपतिः, श्रुतस्तदन्तिके क्षणमेकं धर्मोपदेशः, पश्चात्प्रश्नितस्तेन कुलपतिर्भगवन् ! साधारणरूपसौभाग्यगुणगणालङ्कृतस्य प्रथमयौवने वर्तमानस्यापि किं भवतो व्रतकरणकारणं ? कुलपतिना भणितं सौम्य ! शृणु ? -
Jain Education International
चण्डरुद्रकथा
अस्ति मलयविषयमण्डनं चन्दनपुरं नगरं, तन्निवासिचण्डदेव-ब्राह्मणसुतश्चण्डरुद्रो नाम्नाहं, कालान्तरेणोपरतो मम पिता, ममोपरि सङ्क्रान्तो गृहभारः, परस्परं कलहं कुर्वत्यौ न शक्नोमि निवारयितुं जननीगृहिण्यौ, तावदेव च मे सुखं यावदहं गृहं न प्रविशामि, अन्यस्मिन् दिने भणितं गेहिन्या, यदि मया प्रयोजनं तदा निजजननीं गृहबहिष्टात् कृत्वा भोजनमात्र सन्तुष्टां धारय मां वा विसर्जय । ततो विस्मार्य जनन्या उपकारं, अवलम्ब्य
"
For Private & Personal Use Only
www.jainelibrary.org