________________
अधिकार १८ / श्लोक ३३७-३३८ / अमृत: मुखी वृद्धाकथा:
३७७
अथ वृद्धनारीदृष्टान्तश्चायं
'अस्त्यत्रैव भारते वर्षे महीमण्डलमण्डना सकलसम्पदावासा सुखावासा नाम नगरी, तस्यां नागदत्तो नाम इभ्यपुत्र: परिवसति, तस्य च यथार्थाभिधानाऽमृतमुखी नाम जननी, कटुकमुखीनामधेया च श्वश्रूः, नागथ्री म च भार्या । अन्यदा च परलोकं गते जनके जातो गृहस्वामी नागदत्तो विचिन्तयति गृहकार्याणि, न कसेति कुत्सितजनै: सह सङ्गं न प्रसरति द्यूतादिव्यसनेषु । अन्यदा च स नगरान्निर्गच्छन् दृष्टो दुष्टहस्तिना, तद्भयेन च नष्ट्वा प्रविष्टः समासन्ने सङ्कटद्वारेऽनङ्गसेनाभिधानवेश्यामन्दिरे, विनयपुरस्सरं कृतस्तया तस्यासनाद्युपचारः, भणितश्च नागदत्तो निजगृहमिवैतदेव, तदत्रैवभुज्यतामिति, प्रतिपन्नमनेन, मज्जित: परममज्जनविधिना, भोजित: सर्वादरेण, तत: पुष्पताम्बूलविलेपनादिभि: प्रतिपत्तिं कृत्वा परिहासगर्भेर्वचोभिः समावर्जितं तस्य हृदयम्, उषितस्तत्रैव तां रजनी, गत: प्रभाते निजमन्दिरं, पृष्टश्च जनन्या यथा वत्स ! कुत्र त्वमद्य रजन्यामुषितोऽसि ? दुःखसम्भारपूरितानामस्माकं कथंकथमपि कष्टेन व्यतीता रजनी। अत्रान्तरे वक्रीकृताननया प्रकृतिकटुकभाषणशीलया सासूयं जल्पितं श्वश्र्वा, किमत्र प्रष्टव्यं लोचने एवास्य रात्रिजागरणं साधयत:, व्यसनासक्त: स्वच्छन्दचारी च तव पुत्रकः, नेदं गृहवृद्धिकारणं, यत:
देवकुले राजकुले वुट्टीसु य ऊसवेसु विविहेसु । कह होउ तत्थ वुडी, जत्थ न वुड्डा गणिज्जंति ॥ वयपरिणयलोयपर-म्मुहाण दुक्खाणि सुयणु ! सुलहाणि ।
एसो तुह पुण पुत्तो, न कुणइ वुड्डाण वयणाई ॥२॥ तद्भद्रे! निवारय यदि शोभनेन प्रयोजनं, ततो हस्ते गृहीत्वा बाष्पाविललोचनया भणितो नागदत्तो जनन्या, यथा जात ! यदहं भणामि तदवश्यं त्वया कर्तव्यमेव, तेनोक्तमेवं करिष्याम्येव तव वचनं, मा खेदं कार्षीः । तया भणितं यद्येवं वत्स ! न त्वया बहिर्वस्तव्यं, प्रतिपन्नमिदमनेन । एवं व्रजन्ति वासरा:, मिलति चोद्यानादौ गतस्यानङ्गसेना, संवर्धते च तयोस्तत्र गोष्ठीरस:, ददाति च प्रच्छन्नमेव द्रविणजातं नागदत्तः । अन्यस्मिन् दिवसे परिहासेन जल्पितमनया यदहो दौर्भाग्यं मम मन्दिरस्य, यत: प्रथमदिने दृष्ट्वा न दृष्टं पुनरप्यार्यपुत्रेण । तेन भणितं गुरुजनपराधीनतया न साक्षाद् दृश्यसे त्वं, हृदयेन पुन: प्रतिदिवसं पश्यामि भवन्तीम् । तया चिन्तितमीश्वरपुत्रोऽयं दाता, अनुरक्तश्च मां प्रति, यदि कथञ्चिज्जनन्या वियोज्यते तदा पूर्यन्ते मम मनोरथा: । भणितश्चानया नागदत्तो यथार्यपुत्रावसरस्ते साम्प्रतमर्थोपार्जनस्य, यत:- "पढमे न पढइ विजं, बीए अत्यं न चेव विवढेइ। ...
___तइए न कुणइ धम्म, तुरिये वए होइ हु असारो" ॥१॥ १ तुला-मणोरमा कहा पृ. ३५-४१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org