________________
३७६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
___ यदेषा सर्वदा सूते जनयति सूनृतं सत्यं प्रियं च सूनुतमुच्यते, मधुरं कोमलं वचो वचनं, न कठोरकारणाद्यस्मान्मृदुकार्यं जायते भवतीति श्लोकद्वयार्थः ॥३३३॥
अथ कटुकवचसो दोषमाह-शुभेत्यादि श्लोकद्वयं, शुभाशुभानि सुखदुःखरूपाणि भावीनि जीवानां जन्तूनां कर्मयोगत: कर्मसम्बन्धाद् दुःखमसुखमुत्पादयत्येव जनयत्येव तत्क्षणात्तस्मिन्नेव समये दुर्वच: श्रुतं सदिति ॥३३४॥
दग्धा दवेनेत्यादि सुगममिति श्लोकद्वयार्थः ॥३३५।।
अथ मृदुभाषकत्वं प्रत्युपदिशन् वृत्तमाह-मितेत्यादि मितं स्तोकं मधुरं प्रियमुदारं स्फारं जन्तुसन्तोषकारं जीवानां तुष्टिकरमित्यर्थः वदत वदत जल्पत जल्पत लोका जना:!सद्वच: शोभनवाक्यं चित्तहारं मनोहारि, हरहसितहिमानीहारनीहारहारि, तत्र हरहसितं हराट्टहास:, हिमानी महद्धिमं, हारो मुक्ताफलमाला, नीहारस्तुषार:, तद्वद्धारिशोभायमानं हरहसितादिवच्छुभ्रमित्यर्थः, भ्रमतिभ्राम्यति भुविपृथिव्यांसमन्तात्सर्वत:सद्यशोशोभना सर्वदिग्गामिनी कीर्तिर्येन कारणेन सारं प्रधानमिति वृत्तार्थः ॥३३६॥
अथ मधुरकटुकभाषिणामर्थानर्थसूचकं श्लोकद्वयेन दृष्टान्तमाह
इह लोकेऽपि कल्याणं, जायते मृदुभाषिणाम् । अत्रामृतमुखी नाम, वृद्धनारी निदर्शनम् ॥३३७।। इह लोकेऽपि दुःखानि, लभन्ते कटुभाषिणः । अत्रार्थे ऋतुभिः शप्ता, वृद्धयोषा निदर्शनम् ॥३३८।।
इह लोकेऽपि मनुष्यलोके कल्याणं सुखं सत्कीर्तिसम्प्राप्तिरूपं जायते सम्पद्यते मृदुभाषिणां मधुरवादिनाम्, अत्रास्मिन्नर्थेऽमृतमुखी नाम वृद्धनारी स्थविरस्त्री निदर्शनं दृष्टान्त इति प्रथमश्लोकार्थः ॥३३७।।
इह लोकेऽपि मनुजजन्मनि दु:खान्यशर्माणि लभन्ते प्राप्नुवन्ति कटुभाषिण: कटुवक्तारः, अत्रार्थे ऋतुभि: शप्ता, ऋतव: शिशिरादयस्त्रय: कालविशेषास्तदधिष्ठायका देवा अपि ऋतुशब्देनाभिधीयन्ते, तैः शप्ता आक्रोशिता वृद्धयोषा वृद्धनारी निदर्शनं दृष्टान्त इति द्वितीय श्लोकार्थः ।।३३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org