________________
अधिकार १८ / श्लोक ३२४-३३८ / मृदुभाषागुणा:
३७५
दग्धा दवेन रोहन्ति, छिन्ना अपि पुनः पुनः । वचोदग्धा वचश्छिन्ना, न रोहन्ति नरांह्रिपाः ॥३३५॥ मितमधुरमुदारं जन्तुसन्तोषकारं, वदत वदत लोका: ! सद्वचश्चित्तहारम् । 'हरहसितहिमानीहारनीहारहारि, - भ्रमति भुवि समन्तात्सद्यशो येन सारम् ।।३३६॥
तदेवेत्यादि, तदेवेह लोकेऽमृतं पीयूषं मन्ये तर्कयामि, यत्सत्यं समीचीनं कोमलं मृदु वचो वचनं, वार्ता किंवदन्त्येषेयं यद्यस्मात्सुरैर्देवैः सिन्धोः समुद्रान्मथितालोडितादुद्गतं निर्गतं तदमृतमिति श्लोकार्थः ॥३२४॥
अथ मृदुवचनस्य गुणमाह-नतस्येत्यादिश्लोक:- सुगमः ।।३२५।।
अथ शुभेतरभाषाया माहात्म्यं वर्णयन् श्लोकत्रयमाह-एषैवेत्यादि, एषैवेयमेव देवता देवी वन्द्या स्तुत्या जिह्वाग्रे रसनान्ते सरस्वती या वाणी, अशुभेतरभेदेन कर्कशमृदुविकल्पेन वक्त्रे वक्त्रे मुखे मुखे व्यवस्थिता स्थितिं कृतवती ॥३२६॥
मित्राण्यपि सुहृदोऽपि अमित्राणि शत्रूनु, बन्धूनपि स्वजनानप्यबान्धवान्, शत्रूभूतं रिपुसमानं करोति विधत्ते आद्या प्रथमा कर्कशेत्यर्थः, विश्वं सर्वं विश्वं जगत्सरस्वती भाषा ॥३२७।।
अमित्राण्यपीति श्लोकस्य पूर्वश्लोकविपर्ययेण व्याख्या कर्तव्येति श्लोकत्रयार्थः ॥३२८॥ अथ मृदुभाषकं स्तुवन्नाह-स्वरुचीत्यादिश्लोकत्रयं स्पष्टमेव ॥३२९-३३१॥
__ अथ मृदुभाषकजिह्वाया मधुरभाषकत्वे कारणं वितर्कयन् श्लोकद्वयमाह-सुधयेत्यादि, सुधयाऽमृतेन किमिति वितर्के, गुडेन प्रतीतेन, अथ विकल्पे किंवा खण्डेन निर्मिता कृता, किंवा शर्करया प्रसिद्धया सृष्टा निष्पादिता स्रष्ट्रा धात्रा जिह्वा रसना महात्मनां महापुरुषाणाम् ॥३३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org