________________
३७४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
मृदुभाषिताधिकार : १८
उक्तो विवेकाधिकाएँ: विवेकिनस्तु मृदुभाषका भवन्तीति तदनन्तरं मृदुभाषिताधिकारमाह, तत्र 'श्लोकास्त्रयोदश, तद्यथा
Jain Education International
तदेवेहामृतं मन्ये, यत्सत्यं कोमलं वच: ।
वार्तेषा यत्सुरै: सिन्धु- र्मथितादुद्गतं तु तत् ॥ ३२४॥
"
,
"
न तस्यास्ति रिपुः कोऽपि, न चापि च परो जनः । वस्त्वसाध्यं न चास्त्यस्य यस्यास्ति मधुरं वचः ॥ ३२५ ॥ एषैव देवता वन्द्या, जिह्वाग्रे या सरस्वती । अशुभेतरभेदेन वक्त्रे वक्त्रे व्यवस्थिता ॥ ३२६॥ मित्राणि चाप्यमित्राणि, 'बन्धूनपि ह्यबान्धवान् । शत्रूभूतं करोत्याद्या, विश्वं विश्वं सरस्वती ॥ ३२७॥ अमित्राण्यपि मित्राण्य - बन्धूनपि च बान्धवान् । मित्रभूतं करोत्याद्या, विश्व विश्वं सरस्वती ॥ ३२८ ॥ स्वरुच्या दीयते दानं, विद्यमानं निजे गृहे । स्वाधीनं दुर्गतस्यापि मोदकं मधुरं वचः || ३२९॥ किं किं तेन न दत्तं स्यात्, किं किं नोपकृतं जने । प्रथमं 'हृष्टवक्त्रेण, मधुरं येन भाषितम् ||३३०॥ गुणान् स्मरन् सदा शेते, स्मरन्नेव प्रबुध्यते । दानं विनापि लोकोऽयं पुंसो मधुरभाषिणः ॥ ३३९॥ सुधया किं गुडेनाथ, किं वा खण्डेन निर्मिता । किंवा शर्करा सृष्टा, स्रष्ट्रा जिह्वा महात्मनाम् ||३३२|| यदेषा सर्वदा सूते, सुनृतं मधुरं वचः । कठोरकारणाद्यस्मा - न्मृदुकार्यं न जायते ॥ ३३३॥ शुभाशुभानि भावीनि, जीवानां कर्मयोगत: । दुःखमुत्पादयत्येव, तत्क्षणाद् दुर्वचः श्रुतम् ||३३४||
१ लोकाश्चतुर्दश- BJC | २ बन्धूनप्यबा BC | ३ प्रहृष्ट B
For Private & Personal Use Only
www.jainelibrary.org