________________
३६८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
इत्थं त्रिसन्ध्यमप्यस्य, श्रीदेवस्य महाश्रियम् । भक्त्याराधयतो नित्यं, गत: काल: कियानपि ॥५७॥ प्रविलोक्यान्यदा लक्ष्मी, हसन्तीं तत्र हेलया। श्रीदेवो विस्मयापन्नो, विषण्णस्तामभाषत ॥५८॥ किमित्यद्य त्वया देवि !, मामालोक्य प्रहस्यते । कथ्यतां मे प्रसादेन, यद्यकथ्यमिदं न हि ।।५९॥ तयोदितमहो मुग्ध !, हसामि तव चेष्टितम् । स प्राह कीदृशं देवि!, सावोचदवधार्यताम् ॥६०॥ कथं त्वं नोपहास्योऽसि ?, कथं त्वं नैव मुग्धक: ? । लोकधर्मविरुद्धं वा, कथं न क्रियते त्वया ? ॥ यस्त्वं सर्वगुणोपेतान्, सर्वसत्त्वहितावहान् । सुरासुरनराधीश-विद्याधरनतक्रमान् ॥६२॥ सर्वकर्मक्षयोद्भूत-परमानन्दकारकान् । देवेन्द्रादिकृतस्फार-'चारुपूजांस्तथार्हतः ॥६३॥ त्यक्त्वात्प्रमुखान् देव-विशेषानतिमूढधी: । प्रपूजयसि मामेका-मिहलोकसुखार्थिकः ॥६४||
न चेत्तत्त्वं विजानासि, यथाहं न स्थिरा क्वचित् । भवामि सुभगस्यापि सत्पूजाधुपचारतः ॥६५॥ निगुर्णस्यापि सत्त्वस्य, पुण्यैरेव पुरा कृतैः । भवामि स्थेयसी भद्र!, नान्यथेत्यवधार्यताम् ॥६६|| श्रीदेवोऽपि तत: प्राह, भक्तिनिर्भरमानस: । ललाटदेशविन्यस्त-प्रोल्लासिकरसम्पुटः ॥६७।। किमेवमुच्यते देवि!, त्वमेव मम देवता । त्राणमालम्बनं चैव, जीवितं जीवितप्रदा ॥६८।। त्यक्तान्यदैवतस्येह, त्वामाराधयतो ध्रुवम् । सद्भक्त्यैकाग्रचित्तेन, यद्भवति तदस्तु मे ॥१९॥ ततो विशेषतस्तस्य, तामेवार्चयत: सदा । सन्त्यक्तशेषदेवस्य, व्यतिक्रामन्ति वासराः ॥७०।। अन्यस्मिंश्च दिने दृष्ट्वा, श्रियं श्यामीकृताननाम् । पप्रच्छोद्विग्नचित्तोऽसौ, संयोज्य करसम्पुटम् ॥७१।। श्यामीकृतमुखाम्भोजा, वहन्ती खेदमुच्चकैः । लक्ष्यसे विश्वसम्पूज्ये!, स्वामिनि ! किमु कारणम् ? ।। तयोक्तं तव सञ्जातो, योऽयं सम्प्रति दारकः । स निर्भाग्यो निरादेयो, सर्वथाप्यपलक्षण: ॥७३॥ अतोऽहं तावकं गेहं, त्यक्तुमिच्छामि सत्वरम् । तेनाहं खेदमापन्ना, त्वद्वियोगाभिशङ्कया ॥७४|| श्रुत्वेदं सविषादेन, श्रीदेवेन प्रभाषितम् । मुक्त्वा च मामकं गेहं, देवि ! त्वं कुत्र यास्यसि ?॥ तयोक्तं भोगदेवस्य, सार्थवाहस्य मन्दिरे । वास्तव्यस्य पुरेऽत्रैव, तत्पुण्याकृष्टमानसा ॥७६॥ अथ क्रमाद्गता सापि, भोगदेवस्य मन्दिरे । श्रीदेवस्य गृहं मुक्त्वा, चञ्चलत्वस्वभावत: ॥७७॥ रत्नस्वर्णादिसम्पूर्णं, सर्वतोऽपि स्वमन्दिरम् । दृष्ट्वा भोगवतीं प्राह, भोगदेवो गतस्मय: ॥७८॥ प्रिये ! दीनादिसत्त्वेभ्यो, देहि दानं यदृच्छया । उपभुक्ष्व समं सर्वे-रिमां लक्ष्मी स्वबन्धुभिः ॥७९॥ यदेषा नैव कस्यापि, सञ्जाता स्थेयसी भुवि । सद्गुणस्यापि सत्त्वस्य, प्रकृत्यैवातिचन्चला ।।८०॥ श्रुत्वा वाक्यमिदं भर्तुः, सापि सानन्दमानसा । नाथैवं प्रकरोमीति, प्रतिपन्नं तथा तया ॥८१।। एवं सम्प्रेरिता भा, भार्येयं दानशूरिका । दातुं भोक्तुं समारब्धा, यथेष्टं सा निजश्रियम् ।।८२।। तस्येत्थं भोगदेवस्य, याति कालं यथासुखम् । जैनं दानादिकं धर्मं, कुर्वत: प्रियया सह ।।८३॥ श्रीदेवोऽपि श्रिया मुक्तो, मुक्त: सर्वगुणैरपि । सर्वस्यापि च लोकस्य, जात: परिभवास्पदम् ।।८४॥ १ चारुपूजनमर्हत:- BIC । २ न चैतत् वि" BJC । ३ श्रीधरस्य- BIC I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org