________________
अधिकार १७ / श्लोक २११-२३३ / भोगदेवकथा
३६७
जिनेन्द्रपूजने सक्ता, रक्ता सर्वज्ञशासने । भक्ता सुसाधुलोकेषु, विरक्ता भववासत: ॥२९॥ विज्ञा सद्धर्मकार्येषु, वत्सला धार्मिके जने। स्त्रीजनोचितनि:शेष-कलाकौशलशालिनी ॥३०॥ मुक्तावलीव सच्छाया, सुतारगुणराजिनी । सरला च सुवृत्ता च, जनतानन्दकारिणी ॥३१॥ तया सार्धं सदौदार्य-धैर्यगाम्भीर्ययुक्तया । सम्पद्यमाननिःशेष-मनोवाञ्छितसम्पदा ॥३२॥ सुरेन्द्रस्येव सद्भोमान्, भुञ्जानस्य सुरालये । प्रकामं भोगदेवस्य, व्यतिक्रामन्ति वासरा: ॥३३॥ बभूवान्योऽपि तत्रैव, श्रीदेवाख्यो धनेश्वरः । अनेकधनकोटीनां, स्वामी विख्यातकीर्तिकः ॥३४॥ तेनाचिन्ति यथेयं श्री:, सर्वकल्याणकारिका । व्यापल्लीवितानस्य, सच्छेदनकुठारिका ॥३५॥ इयं हि प्राणिनां लक्ष्मी-गुरुताकरणं वरम् । हेतुर्निर्मलकीर्तीनां, जयश्रीणां शुभाश्रयः ॥३६॥ सुजातिकुलहीनोऽपि, कुरूपोऽपि जडोऽपि हि । मूकोऽपि हीनसत्त्वोऽपि, विचक्षुर्बधिरोऽपि हि॥३७॥ अस्पृश्योऽपि जघन्योऽपि, क्लीबोऽपि कृपणोऽपि हि। निर्गुणोऽपि श्रिया युक्तः, शोभते भुवि मानवः। जाति: कुलं कुलाचाराः, सर्वे रूपादयो गुणा: । एकयैव थ्रिया हीना-स्तृणायन्ते हि देहिनाम् ॥३९॥ तदहं प्रतिमामस्या, लक्ष्म्या लक्षणसंयुताम् । सर्वरत्नमयीं रम्यां, कारयित्वा वराकृतिम् ।।४०॥ विनिवेश्य गृहस्यान्त:, स्फुरद्रत्नविराजिनीम् । आलिके सर्वसौवर्णे, मुक्ताफलसुमण्डिते ॥४१॥ तदेनामेकचित्तेन, त्रिसन्ध्यमपि सादरम् । पूजये वसंपुष्पाद्यैः, सर्वैः सुन्दरवस्तुभिः ॥४२॥ एवं विचिन्त्य चित्तेऽसौ, श्रीदेव: कृतनिश्चयः । तथैव सत्वरं चक्रे, नि:शेषं निजवाञ्छितम् ॥४३॥ ततस्तां प्रतिमामेष, स्नपयित्वा प्रयत्नतः । कर्पूरकुङ्कुमोन्मिश्र-सौगन्धोध्धुरवारिभिः ॥४४॥ चारुचन्दनसद्धूप-सद्गन्धकुसुमादिभि: । त्रिसन्ध्यं सादरं भक्त्या, प्रत्यहं पर्यपूजयत् ॥४५॥ इत्थं सम्पूज्य पञ्चाङ्गं, प्रणामं प्रविधाय च । कृत्वा पाणी ललाटस्थौ, लक्ष्मीमेवं सुतुष्टवे॥४६॥ जय त्वं देवि ! नि:शेष-मामरार्चितक्रमे ! । जय त्वं सर्वलोकस्य, स्पृहणीयगुणव्रजे ! ॥४७॥ त्वं देवि ! परमाराध्या, त्वं मे परमदेवता । त्वं मे माता पिता बन्धु-स्त्वं स्वामी त्वं च मे गुरुः॥ त्वदायत्ता हि जीवानां, सर्वा सौख्यपरम्परा । त्वदायत्तं महाराज्यं, सर्वसम्पत्तिसुन्दरम् ॥४९॥ त्वदायत्ता रणे देवि!, प्ररूढानां जयश्रिय: । त्वदायत्ता हि कीर्तिश्च, त्वदायत्ता गुणा: समे ॥५०॥ देवानां दानवानां च, मानां व्योमचारिणाम् । त्वं वन्द्या पूजनीया च, श्लाघनीया सुखप्रदा ॥५१॥ स एव सुभगो लोके, सुरूप: शिष्टसम्मत: । मेधावी पण्डितो धीमान्, शूरो धीर: कलालय: ॥५२॥ स एव जगति स्वामी, स एवेह गुणाश्रय: । यस्त्वया स्वामिनि ! प्राणी, दृष्टः सानन्दया दृशा॥ त्वं मे देवि ! परं तत्त्वं, त्वमेवाभीष्टदेवता । त्वमेव मम सर्वस्वं, त्वमेव मम जीवितम् ॥५३॥ नाहमन्यं स्तुवे देवि!, नान्यमभ्यर्चयाम्यहम् । नाहमन्यं विमुच्य त्वां, मनसापि विचिन्तये ॥५४॥ त्वयि चाराधितायां हि, नित्यं खलु सुभक्तित: । समग्राण्यपि सौख्यानि, करस्थानीह देहिनाम् ॥५५॥ इत्यादि समभिष्टुत्य, महालक्ष्मी सभक्तित: । विरराम निजात्मानं, मन्यमान: कृतार्थकम् ॥५६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org