________________
३६६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरलकरण्डके
भोगदेवकथानकं पुनरिदं, तद्यथाअस्त्यत्र विश्वविख्याते, जम्बूद्वीपस्य मध्यगे । ग्रामाकरपुराकीर्णे, क्षेत्रे च भरताभिधे ॥१॥ स्वर्ग इव समुत्तुङ्ग, सुरवेश्मविराजितम् । चेतोहारिविभूत्याढ्यं, सुपर्वशतसुन्दरम् ॥२॥ मेर्वासन्नधरित्रीव, भद्रशालोपशोभितम् । उत्तुङ्गशिखरोदार-जैनमन्दिरमण्डितम् ॥३॥ समुद्राम्भ इवोदग्र-भूरिसत्त्वसमाकुलम् । विराजद्रत्नराजीभिः, समाकीर्णं समन्तत: ॥४॥ रसातलमिवोद्दाम-भोगभोगिशतान्वितम् । रामारामादिभी रम्यं, पुरं भोगपुराभिधम् ॥५॥ माणिक्यानि समादाय, स्थितमेतदिति क्रूधा। यद्वेष्टितमिवाभाति, सिन्धुना परिखाच्छलात् ॥६॥ अभ्रंलिहाणि शृङ्गाणि, बिभ्रत्प्राकारमण्डलम् । खातिकाम्भोनिधिर्यत्र, वेदिकाविभ्रमं दधौ ।।७।। यियासो: ककुभ: कीर्ते-श्चतस्रोऽपि समं दधौ । प्रस्थानपथसंस्थानं, यस्य द्वारचतुष्टयम् ।।८।। शुभ्राभ्रविभ्रमभ्राज-श्चारुरत्नचयाञ्चिता: । आलया यत्र भान्ति स्म, न्यकृतत्रिदशालया: ॥९॥ मनोरथातिगन्धेन, सुदूराहूतमार्गणाः । यच्छन्ति धनिनो यत्र, बद्धस्पर्धा: परस्परम् ।।१०॥ अदभ्रविभ्रमोपेता, हावभावान्विता बभुः । मारवीरशरोभूता, यत्र रामा मनोरमा: ॥११॥ कलको यत्र शीतांशौ, कोकिले परपुष्टता । काठिन्यं स्त्रीकुचेष्वेव, पद्मनाले च कण्टका: ॥१२॥ सुतारं हरिसंयुक्तं, सचित्रं मङ्गलालयम् । सकुम्भं बुद्धसंशोभि, द्विजराजविराजितम् ॥१३॥ कन्याभिराममुद्दाम-मकरमीनकेतुकम् । व्योमेव राजते यत्र, सुन्दरं राजमन्दिरम् ।।१४।। सप्रभ: सप्रतापश्च, जिततेजस्विमण्डल: । यत्र सूर्य इवारेजे, राजा राजतुरङ्गमः ॥१५॥ बभूव यत्र सद्भोग्यो-दग्रसौभाग्यसंयुतः । सुभोगो भोगदेवाख्यः, सार्थवाहो महाधन: ॥१६॥ शुचिस्त्यागी च भोगी च, कृतज्ञ: सुकृती कृती। सदाशय: सदाचारः, सत्यवादी प्रियंवदः ॥१७॥ कृतार्थीकृतसर्वार्थि-सार्थनानामनोरथ: । बभार भारताभोगे, य: कल्पतरुकल्पताम् ॥१८॥ दधानो वक्षसा लक्ष्मी, गत: सत्यानुरागिताम् । अनन्तभोगसङ्गेन, यो दध्यावच्युतश्रियम् ॥१९॥ अभूद्भोगवतीनाम, तस्य भार्या प्रियंवदा । सौभाग्यदानदाक्षिण्य-दयादिगुणसंयुता ॥२०॥ स्वबन्धुकुमुदानन्द-प्रदानोज्ज्वलंचन्द्रिका । सत्यसूनृतसुश्राव्य-सद्वाक्यामृतकूपिका ॥२१॥ विशालशीलसम्पन्ना, विशालवरवंशजा । पद्मपत्रविशालाक्षी, सुविशालमनोरथा ॥२२॥ यस्या: सुनिर्मलज्ञान-दीप्रप्रदीपरोचिभि: । मिथ्यात्वविततध्वान्तं, ध्वंसितं स्वान्तवेश्मनः ॥२३॥ यस्याश्चित्तमहीपीठे, सर्वदोषविवर्जिते । सिक्ते जैनागमाम्भोद-वाक्यनिर्मलवारिभिः ॥२४॥ दृढसम्यक्त्वसन्मूल:, सद्ज्ञानस्कन्धसंयुत: । पञ्चाणुव्रतविस्तारि-मूलशाखाविराजितः ॥२५॥ सप्तशिक्षाव्रतोद्दाम-प्रशाखासञ्चयाञ्चित: । विविधाभिग्रहप्राज्य-प्रोल्लसत्पल्लवाकुल: ॥२६॥ संवेगादिगुणग्राम-विकासिकुसुमोत्करः । स्वर्गादिसौख्यसुस्वाद-सुप्रशस्तफलप्रदः ॥२७॥ सकलोपाधिसंशुद्ध:, शुक्लपक्षनिषेवित: । श्रावकधर्मसवृक्षः, प्रारुरोह मनोहरः ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org