________________
अधिकार १७ / श्लोक ३११-३२३ / विवेकमहिमा
३६५
निर्विवेका इत्यादि, निर्विवेका विवेकविकला न शस्यन्ते न श्लाघ्यन्ते जन्तवो जीवा:, पशवो यथा अजादिपशव इव, विवेको हि सद्बोधो हि परं प्रधानं रत्नं सतां सत्पुरुषाणां हृदयमण्डनं हृदयालङ्करणमिति, यथा सततमनवरतं तीव्रदुःखौघ एव मन्दरस्तस्योद्दामो वेगस्तस्मान्मथितस्य व्यालोडितस्य मनोम्भोधे- मन:समुद्रस्योत्पन्नं सञ्जातं न कदाचिदपि, उक्तं च
अणवरयगुरुयदुक्खोह- मंदरुद्दामवेयमहियस्स। . तहवि तुह हिययसार ! विवेयरयणं न उच्छलियं ॥१॥
विवेकसंज्ञितमित्यादि श्लोकद्वयं स्पष्टमिति श्लोकचतुष्टयार्थः ।।३१३-३१६।। अथ विवेकाविवेकयो: फलमाविष्कुर्वन् श्लोकद्वयमाह-निर्विवेककृतमित्यादि सुगमं चैतत् ॥३१७-३१८॥
अथ निर्विवेकलक्षणमाह-असारेऽसुन्दरे सारतावाञ्छासुन्दरत्वाभिलाष:, शत्रावपि रिपावपि मित्रधी: सुहबुद्धि:, मित्रेष्वपि स्निग्धवयस्येष्वप्यमित्रबुद्धि: शत्रुबुद्धिरित्यर्थः,तदेतन्निर्विवेकस्य लक्षणमिति श्लोकार्थः ॥३१९|| अथ विवेकमेव स्तुवन् श्लोकद्वयमाह-नमस्तस्मै इत्यादि स्पष्टं चैतत् ॥३२०-३२१॥ अथ विवेकिन एव स्वसम्पद: सफलीकुर्वन्तीति दर्शयन् दृष्टान्तमाह-विवेकादिति श्लोक: सुगम: ॥३२२॥
अथ विवेकस्य कार्यं दर्शयन् वृत्तमाह-भव्येत्यादि, भव्या प्रधाना भक्तिराराधना भगवति समग्रैश्वर्ययुक्ते जिने सर्वज्ञे यद्यस्मात् सदा सर्वदा निष्प्रकम्पा निश्चला संसाराब्धेर्भवसमुद्रस्य तरणतरिका परपारगमनप्रवणद्रोणिका, सेवना पर्युपासना यद्यतीनां यत्साधूनां, यन्नि:स्पृहं हृदयं चित्तमनवा, निग्रहश्चेन्द्रियाणां हृषीकाणाम् एतत्पूर्वोक्तं सर्वं समस्तं शिवसुखफलं सिद्धिसौख्यफलं सद्विवेकस्य सद्बोधस्य कार्य फलमिति । उक्तं च
यत्सन्तोषसुखं यदिन्द्रियजयो यचेतसः शान्तता, यजीवेषु दयालुता यदपि गीः सत्यामृतस्यन्दिनी ॥ यदानं यदनार्यसङ्गविरतिर्यत्सङ्गतिः सज्जनै
रित्येतत्परिणामसुन्दरफलाः सर्वे विवेकाङ्कुराः ॥१॥ ॥ इति श्लोकत्रयोदशकार्थः ॥३२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org