________________
३६४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
भव्या भक्तिर्भगवति जिने यत्सदा निष्प्रकम्पा, संसाराब्धेस्तरणतरिका सेवना यद्यतीनाम् । यनिर्लोभं हृदयमनघं यज्जयश्चेन्द्रियाणा-मेतत्सर्वं शिवसुखफलं सद्विवेकस्य कार्यम् ॥३२३॥
इति श्लोकास्त्रयोदश।
अथ विवेक इति क: शब्दार्थ: ? उच्यते-इह 'विचिर पृथग्भावे" इत्यस्य धातोर्विपूर्वस्य विविच्यते पृथक्रियते आत्मप्रदेशेभ्य: सकाशाद् ज्ञानावरणीयाद्यष्टप्रकारं कर्मानेनास्मिन्निति वा विवेक इति।
“अकर्तरि च कारके संज्ञायाम् [कातन्त्रव्याकरणे पाद ६/सू. ४८६]
इत्यनेन सूत्रेण करणाधिकरणयोर्घटते, तत: ‘चजो: कगौ धुट्यानुबन्धयो: [कातन्त्रव्या. कृवृति: पाद/ ६ सूत्र ४८६/पृ. २२१] इत्यनेन सूत्रेण चकारस्थाने ककार:, नामिनश्चोपधाया लघो:[कातन्त्रव्या. आख्यातवृत्ति: पाद ५/सू.:२१८] इत्यनेन च गुणे सति विवेक इति भवति, स च मतिश्रुतात्मको ज्ञानविशेष एवेह गृह्यते, तस्यैव हिंसाहिंसादिवस्तूनां हेयोपादानद्वारेण समस्तार्थक्रियासार्थनिष्पत्तिहेतुत्वादिति, तत्र यस्यास्ति विवेकवद्भिः सह सङ्गति: स एव पश्यति, शेषास्तु परमार्थतोन्धा एवेति दर्शयन् श्लोकद्वयमाह-विवेक इत्यादि, विवेक उक्तशब्दार्थो निर्मलमुज्ज्वलं चक्षुर्लोचनमेकं यस्य महात्मनस्तद्वद्भिर्विवेकवद्भिः सह सङ्गति: संसर्गश्चैवेति समुच्चये, द्वितीयं चक्षुर्नयनमुज्ज्व लं विशदं, एतदुक्तलक्षणं नेत्रयुगं लोचनद्वयं वस्तुसद्भावदर्शकंपदार्थपरमार्थप्रकाशकं, स द्रष्टा, स एव चक्षुः परमार्थेन, शेषा अन्धसमा नरा इति । उक्तं च- एकं हि चक्षुरमलं सहजो विवेक-स्तद्वद्भिरेव सह संवसतिद्धितीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धः स्तस्याप्यमार्गचलने खलु कोऽपराधः १।१।
॥३११-३१२॥ अथ निर्विवेकानामश्लाघ्यत्वं विवेकस्य च रत्नरूपत्वं दुर्लभत्वं च दर्शयन् श्लोकचतुष्टयमाह
१ 'विनृती पृथग्भावे [२/८४]... चान्तोऽयमिति सभ्याः ।' इति [हेम] धातुपारायणे पृ. १९१ 'विजिर् पृथग्भावे' इति माधवीयाधातुवृत्तौ [रुधादि-५] "विचिर इति क्षीरस्वामीमैत्रेयश्चाभट्टोजीदीक्षितोऽपि'
इति माधवीयाधातुवृत्तौ तत्रैव टिप्पनम् पृ. ४१७ ।। Jain Education International For Private & Personal Use Only
www.jainelibrary.org