________________
३६३
विवेकाधिकारः १७
उक्तो विषयाधिकारः, विषयाश्च विवेकिभिरेव परिहर्तुं शक्यन्ते, इत्यतस्तदनन्तरं विवेकाधिकार: उच्यते, तत्रैते श्लोका:
विवेको निर्मलं चक्षु-रेकं यस्य महात्मनः । तद्वद्भिः सङ्गतिश्चैव, द्वितीयं चक्षुरुज्ज्वलम् ॥३११॥ एतन्नेत्रयुगं यस्य, वस्तुसद्भावदर्शकम् । स द्रष्टा परमार्थेन, शेषा अन्धसमा नराः ॥३१२॥ निर्विवेका न शस्यन्ते, जन्तवः पशवो यथा। विवेको हि परं रत्नं, सतां हृदयमण्डनम् ॥३१३॥ सततं तीव्रदुःखौघ- 'मन्दरोद्दामवेगतः । मथितस्य मनोम्भोधे-रुत्पन्नं न कदाचन ॥३१४॥ विवेकसंज्ञितं रत्न-मनयेयुमनुत्तरम् । सतां सदा समीपस्थ-महार्य तस्करादिभिः ॥३१५॥ स्वदेशे च विदेशे च, ग्रामे मार्गे च गच्छताम् । रात्रौ दिवा च कण्ठस्थं, नृणां मण्डनमुत्तमम् ॥३१६॥ निर्विवेककृतं कार्यं, परिणामे न सुन्दरम् । पाताय जायते नूनं, जात्यन्धस्येव चेष्टितम् ॥३१७॥ विवेकदण्डमादाय, मार्गमन्धोऽपि लङ्घते। वाञ्छितं स्थानमाप्नोति, सुखानि च समश्रुते ॥३१८॥ असारे सारतावाञ्छा, शत्रावपि च मित्रधीः । मित्रेष्वमित्रताबुद्धि-निर्विवेकस्य लक्षणम् ॥३१९।। नमस्तस्मै विवेकाय, हृदयानन्दकारिणे। सद्गुणाय सुवृत्ताय, श्रेयसे हारहारिणे ॥३२०॥ सविवेकं दुर्लभं दानं, सविवेकं दुर्लभं तपः । सविवेकं दुर्लभं शीलं, सविवेका दुर्लभा श्रियः ॥३२१॥ विवेकाद्भोगदेवेन, सम्पदः सफलीकृताः । ..
विवेकादेव तेनैव, त्यक्ताः प्रथमतश्च ताः ॥३२२॥ १J। मन्दिरों BC । मन्दार मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org