________________
अधिकार ११ / श्लोक २५४ / शीलसुन्दरीकथा
२८५
यथा भद्र ! चिराद् दृष्टः, कुत्र तस्थावियच्चिरम् । धनचन्द्रस्तत: प्राह, राजानं विनयानतः ॥९४॥ राजेन्द्र ! येन नैवास्ति, मनुष्येण प्रयोजनम् । पार्श्वेऽपि वर्तमानोऽत्र, दृश्यते स कथं विभो!॥९५।। महती मे वर्तते वेला, देवदृष्टयभिलाषिण: । राजाह सर्वमेवेदं, क्षन्तव्यं भवता मम ॥९६॥ राज्यप्रयोजनेनाहं, व्यग्रस्तस्थौ क्षणान्तरम् । तेन त्वमागतोऽप्यत्र, श्रेष्ठिन्नैव मयेक्षित: ॥९७॥ तत: कृतप्रणामेन, धनचन्द्रेण भूपते: । ढौकितं प्राभृतं मुद्रा-रत्नयुक्तं प्रयत्नतः ॥९८॥ प्राभृतोपरि तद् दृष्ट्वा, मुद्रारत्नं नृपोऽपि च । लात्वाऽङ्गुलौ प्रचिक्षेप, श्रेष्ठिनं चाब्रवीदिदम् ॥१९॥
यथा भद्र ! त्वया भ्रान्ता, देशा नानाविधाश्चिरम् ।
किं तेषु विलोकितं किञ्चि-दाश्चर्यं विस्मयावहम् ॥१००॥ श्रेष्ठी प्राह यथा राजन् !, दृष्टमत्रैव पत्तने । एकत्र स्वच्छनीरौघ-परिपूर्णतडागिका ॥१०॥ तस्यां सिंहो मया दृष्टः, प्रविष्टोम्बुपिपासया । निर्गच्छंश्च परं तत्र, तत्त्वं नावगतं मया ॥१०२।। राज्ञाचिन्ति मनस्येव-मुपालम्भो ह्ययं मम । तस्मादुत्तारयाम्यस्य, शङ्काविषं स्फुटोदितैः ॥१०३॥ एवं विचिन्त्य सश्रेष्ठी, विहस्याभाणि भूभुजा। अहो विज्ञातभावार्थो वृत्तान्तस्यास्य निश्चितम्॥१०४॥
यत:- सिंहो तत्थ पविट्ठो, खणं निविठो न चेव परितुहो।
तिसिओवि य सासंको, विणिग्गओ लजिओ चेव ॥१०॥ तदहो न त्वया श्रेष्ठिन्, शङ्का कार्यात्र वस्तुनि । नामतो ह्यर्थतश्चैव, सत्यं सा शीलसुन्दरी ॥१०६॥ श्रुत्वेदं भूपमानम्य, स श्रेष्ठी स्वगृहं गतः । आनन्दनिर्भरश्चैवं, भाषते शीलसुन्दरीम् ॥१०७॥ यथा त्वं सत्यमेवेह, सर्वथा शीलसुन्दरी । तवैव निर्मला कीर्ति-स्त्वमेव च महासती ॥१०८॥ इत्युक्त्वा रत्नराजीनि, प्रवराभरणान्यसौ । ददौ तस्यै प्रभूतानि, स वेश्मप्रभुतां तथा ॥१०९॥ इत्थं सा निजगेहस्य, स्वामिनी भर्तृवल्लभा । जाता शीलप्रभावेण, कालेन च शिवं ययौ ॥११०॥
इति शीलसुन्दरीकथानकं समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org