SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ अधिकार ११ / श्लोक २५४ / शीलसुन्दरीकथा २८३ तद्राजन् ! यादृशा वल्ला-स्तादृशो मादृशो जनः । यादृशा च वृतिस्तत्र, तादृशस्त्वं महीपते ! ॥५२॥ निर्मितो वेधसा नूनं, प्रजानां परिपालक: । यदि त्वमपि मर्यादा-व्यतिक्रान्तं करिष्यसि ॥५३॥ तस्मादन्यस्य कस्येदं, कथयिष्यामि भूपते ! । य एव रक्षको लोके, स एवाजनि भक्षकः ॥५४॥ स्थित्यतिक्रान्तिभीरूणि, स्वस्थान्यकलितानि च। तोयानितोयराशीनां, मनांसि च मनस्विनाम्॥५५॥ एवं स्थिते महाराज! तुभ्यं यदभिरोचते । तद्विधेहि स्वयं चैव, भाषेऽहं किमत: परम् ॥५६॥ आकर्येदं ततो बिभ्रन्, पश्चात्तापं स्वमानसे । तां ब्रवीति स्तुवन्नेवं, तद्गुणै रञ्जितो यथा ॥५७॥ धन्नासि तुमं सुंदरि, पत्तपडाया सईण मज्झमि । नियसीलरयणरक्षण-समुज्जमो जीय तुह एसो ॥५॥ अज्जवि बड्डइ धम्मो, अजवि सचं वयंति पाणिगणा। अजवि संति सईओ, सञ्चवियमिणं तए वयणं ॥१९॥ नियकुलकलंकजणयं, मजायाविलोयकारयं भणियं । अविलंविऊण कापुरिस-चेट्टियं जं मए भणियं ॥६०॥ तं सब्वं खमसु तुम, संपइ सूरुंग्गमो समासन्नो। बच्चामि निययभुवणं, अलक्खंओ चेव लोएण ॥६॥ ततश्च शीलसुन्दर्या, भाषितं मृदुभाषया। एवं विधेहि भो राजन् !, निजं गेहमलङ्कुरु ॥६२।। ततो यावच्छिरोगेहा-दुत्तरति स्म भूपति: । तावद्देशान्तरात्तत्र, धनचन्द्रः समागत: ॥६३।। एकाकी पश्चिमे भागे, द्वारेण प्रविशन् गृहम् । निजगेहान्नराधीशं, निर्गच्छन्तं प्रपश्यति ॥६४॥ ततश्च धनचन्द्रोऽपि, तस्य मार्ग विमुक्तवान् । निर्गच्छतस्ततो राज्ञः, साशङ्कस्य द्रुतं द्रुतम् ॥६५॥ नामाकं च पपाताशु, मुद्रारत्नमलक्षितम् । गतश्च स्वगृहे राजा, लज्जितो निजचेष्टितैः ॥६६।। धनचन्द्रोऽपि तन्मुद्रा-रत्नमादाय सत्वरम् । जगामोपरिवर्तिन्यां, भूमिकायां स्ववेश्मनः ॥६७॥ तत्र चालोकयामास, प्रतिस्तम्भनिवेशितान् । रत्नराशींस्तथा पुष्प-प्रकराञ्चितकुट्टिमम् ॥१८॥ वासभवनं च तद्व-द्वस्त्राद्युल्लोचसुन्दरम् । भोगाङ्गयुक्तपर्यङ्क-सुप्तां च शीलसुन्दरीम् ।।६९।। ततोऽसौ विस्मयं चित्ते, विषादं च वहन् भृशम् । हाहा किमेतदित्येवं, तस्थौ तत्रैव चिन्तयन्॥७०॥ धनचन्द्रं तथालोक्य, शीलसुन्दर्यपि द्रुतम् । ससम्भ्रमं समुत्थाय, पर्यङ्कादासनं ददौ ॥७१।। चरणक्षालनार्थं च, गृहीत्वा जलमागता । विलोक्य च सहर्षां तां, धनचन्द्रो व्यचिन्तयत् ।।७२।। जसु निमित्तु हयहीयडा, पइं जलनिहि तरिओ। तं कलत्तु एवंविह-दुन्नयसयभरिओ ॥७३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy