________________
२८२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
तयाभाणि श्रुतो भद्र!, सन्देशको महीपतेः । तदद्यैव तमिस्राया-मेकाक्येव समेतु सः ॥२६॥ इत्युक्त्वाशीलसुन्दर्या, सन्मान्य च यथोचितम्। चन्द्रो विसर्जित: सोऽपि, गत्वावोचनराधिपम्॥२७॥ यथा देव ! त्वमद्यैव, समाहूतस्तया निशि । श्रुत्वेदं कृतसन्मान-श्चन्द्रो राज्ञा विसर्जितः ॥२८॥ स्वयं च कृतशृङ्गारो, रात्रावेकक एव हि । जगाम शीलसुन्दर्या, गेहे रत्नचयान्विते ॥२९॥ आरूढश्चन्द्रशालां च, रत्नराजिविराजिनीम् । ददर्श तत्र पर्यङ्के, प्रसुप्तां शीलसुन्दरीम् ॥३०॥ सापि राजानमालोक्य, सम्भ्रमेण समुत्थिता । दत्ते भद्रासनं तस्मै, नानारत्नप्रभासुरम् ॥३१|| राज्ञोक्तमिदमेवाहं, पर्यङ्ककं समाश्रये । तयावाचि महाराज!, मनोऽभीष्टं व्यधीयताम् ॥३२॥ निषण्णस्तत्र राजेन्द्र-स्ततस्तयापि सादरम् । प्रतिप्रत्ति: कृता सर्वा, पादप्रक्षालनादिका ॥३३॥ उपविष्टा ततस्तस्य, पुरत: शुद्धभूतले । राज्ञोक्तममुमेवाशु, पर्यत समाश्रय ॥३४॥ तया प्रोचे महीनाथ !, कथं गोमायुगेहिनी । मृगेन्द्राध्यासितं स्थानं, नि:शङ्का श्रयति ध्रुवम् ॥३५॥ राजा प्राह किमेतेन, विचारेण कृतेन ते । प्रतिपन्नं त्वमेवाशु, साम्प्रतं कुरु सुन्दरि ! ॥३६॥ तयोक्तं क्रियते देव ! केवलं श्रूयतां क्षणम् । यदहं ते समाख्यामि, महाराज ! कथानकम् ॥३७॥ राजाह कथ्यतां भद्रे !, साप्याह श्रूयतामिति । अस्तीह पुष्पचङ्गेरं, पुरं देवकुलाकुलम् ॥३८॥ बभूव मालिकस्तत्र, कुन्दकेत्वभिधानकः । तस्यारामो वरोऽनेक-वनराजिविराजित: ॥३९॥ अन्यदा वल्लफल्यर्थं, तस्य गेहे निज: पुमान् । श्रेष्ठिना वसुसारेण, सम्प्रेषितो गतश्च सः ॥४०॥ याचितो मालिकस्तेन, देहि वल्लफलीरिति । मालिक: प्राह वल्लाना-मकालो वर्ततेऽधुना ॥४१॥ यद्यहो भद्र ! काल: स्या-त्तदैति कस्तवान्तिकम् । इत्युक्त्वा निजके गेहे, जगामाशु पुमानसौ ॥४२।। ततो गतो निजारामे, कुन्दकेतुरपि द्रुतम् । आदिदेश निजान् वण्ठान्, युष्माभिर्भो यथाविधि ॥४३॥ निष्पावा वृत्तिपर्यन्तं, भूपीठे उप्यतां भृशम् । सिच्यतां च जलैर्नित्यं, तथैवाकारि तैरपि ॥४४||
सिच्यमानाश्च तैर्नित्यं, जाता: पुष्पफलप्रदाः।
अन्यदा च मनाक् वल्लान्, भक्षितान् वीक्ष्य मालिकः ॥४५॥ सर्वतोऽपि परिभ्राम्य-निजारामं व्यलोकयत् । न चाऽलाकि पदं तेन, गवादेस्तत्र कस्यचित् ॥४६।। द्वितीयेऽह्नि तत: सम्यक्, स्वयमेव व्यलोकयत् । भक्षयन्ती भृशं वल्लान्, वृत्तिरेव विलोकिता ।।४७।। ततस्तेन विचिन्त्यैवं, विस्मयाकुलचेतसा । मया वृत्तिः कृता रक्षा-हेतवे लूषिकाजनि ॥४८||
जे चेव रक्खगा लुंपगावि ते चेव जत्थ जायंति । भयभीओ सरणत्थी, तत्थ जणो कं समल्लियउ ? ॥४९॥ जा वल्लरक्खणकए, कहकहवि विणिम्मिया वाडी।
सच्चिय वल्लविणासं, करेइ हा कत्थ वच्चामि ? ॥५०॥ विचिन्त्यैवं ततस्तस्थौ, विधायाकारसंवरम् । कुन्दकेतुस्तदाश्चर्य, जनानां कथयनृपः ॥५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org