________________
अधिकार ११ / श्लोक २५४ / शीलसुन्दरीकथा
२८१
अथ शीलसुन्दरीकथानकं कथ्यते, तद्यथाअस्तीह भारते क्षेत्रे, सुशर्माख्यं महापुरम् । तत्रासीद्धनचन्द्राख्य:, श्रेष्ठी श्रेष्ठश्रियां गृहम्॥१॥ सुरूपा शीलसम्पन्ना, तद्भार्या शीलसुन्दरी। लसल्लावण्यसम्पन्ना, नवयौवनहारिणी ॥२॥ अन्यदा धनचन्द्रेण, देशान्तरयियासुना। द्रविणोपार्जनाहेतो-र्भणिता निजगेहिनी ॥३॥ यथा प्रिये ! निजं गेहं, रक्षणीयं प्रयत्नतः । स्वकीयं शीलरत्नं च, देवानामपि दुर्लभम् ॥४॥ इत्थमुक्त्वा गत: श्रेष्ठी, सम्प्राप्तश्चेप्सितं पुरम् । निवासोऽजनि तत्रैव, कुर्वत: क्रयविक्रयम् ॥५॥ शीलसुन्दर्यपि स्वीयं, रक्षन्ती वेश्म यत्नतः । सुन्दरं शीलरत्नं च, गमयति स्म वासरान् ॥६॥ अन्यदा च समायाते, वसन्ते चूतचारुणि । उद्यानसम्पदं द्रष्टुं, चतुरङ्गबलान्वितः ॥७॥ हस्तिस्कन्धं समारूढो, नरेन्द्रश्चन्द्रशेखर: । निर्गच्छन्नगरादुच्चै-रपश्यच्छीलसुन्दरीम् ।।८।। निजगेहे गवाक्षस्थां, लसत्सर्वाङ्गसुन्दरीम् । दृष्ट्वैनां भूपतिर्बाढं, सञ्जातो मदनातुरः ।।९।। ततश्चागमदुद्यानं, शून्येनैव हि चेतसा । मित्रानुरोधतश्चैव, विलोक्य च वनश्रियम् ॥१०॥ रमयित्वा क्षणं तस्मि-नायातो निजमन्दिरे । ततो विसर्जयामास, सामन्तादिपरिच्छदम् ॥११॥ निषण्णश्च ततो गत्वा, पर्यङ्के सुमनोहरे । गृहीतश्च[स] कन्दर्प-विकारैर्दुःखदायिभिः ॥१२॥ ततश्च चिन्तयामास, नराधीश: स्वमानसे । यदिदं कथ्यते साक्षा-न्मन्त्रिणां लाघवं तदा ॥१३॥ विचिन्त्यैवं ततो राज्ञा, चन्द्रनामा निज: पुमान् । आकार्य विजनं कृत्वा, कृतोऽभिन्नरहस्यकः ।। तेनोक्तं यदि सा राजन् !, सानुरागा त्वयि स्फुटम् । कार्यसिद्धिस्ततो नूनं, सर्वा हस्तगतैव हि॥१५॥ समर्पयाथ मे देव!, लेखं स्वाकूतसूचकम् । येन तस्या गृहं गत्वा, सादरं तं समर्पये ॥१६।। लिखितश्च नरेन्द्रेण, लात्वा सोऽपि द्रुतं गतः । पश्चिमद्वारतस्तत्र, प्रविष्टश्च क्रमादसौ ॥१७॥ दृष्टा च चन्द्रशाला या-मुपविष्टा शीलसुन्दरी । लेख: समर्पितस्तेन, तस्याः प्रणामपूर्वकम् ॥१८॥ तयोक्तं भद्र! केनायं, लेख: सम्प्रेषितो मम? । स प्राह किं विचारेण ?, लेखो हि कथयिष्यति॥१९॥ तत उद्वेष्टितो लेखो, गृहीत्वा नखकोटिभि: । दृष्टा तया च तत्रैका, गाथेयं सुन्दराक्षरा ।।२०।।
न लहइ गेहम्मि, रई न वाहिरे नवि य पवरपल्लंके।
सुंदरि तुज्झ समागम-समूसुओ अंतरप्पा मे ॥२१॥ वाचिता च तया तूर्णं, गाथार्थोऽवगतस्तथा । चन्द्रेणापि तत: प्रोचे, सादरं व्यक्तया गिरा ॥२२॥ लेखस्तावदयं राज्ञः, सन्देशकं त्विमं शृणु। यथा त्वां खलु दृष्ट्वाहं, विद्धो बाणैर्मनोभुवा ॥२३।।
हारो दहइ सरीरं, दहइ जलद्दावि देहसंलग्गा। ससिकिरणा तणुतवणा, पल्लंको मुम्मुरग्गिसमो ॥२४॥ ता तह करेसु जह कह - वि होइ महदंसणं तए सद्धिं । एत्तियमेत्तं भणिमो, जं जुत्तं तं करिज्जासु ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org