________________
२८०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
संसारे सुखमस्ति। एतस्य च मूलबीजं मिथ्यात्वम्, अत: संसारसागरमुत्तितीर्षता तदुच्छेदाय यतितव्यं, कथं ? प्रतिपत्तव्यार्हन् देवता, अङ्गीकर्तव्या तनिदेशवर्तिसाधुदक्षिणा, न हन्तव्या: प्राणिन:, न वक्तव्यं परपीडाकरं वचः; न लातव्यमदत्तं परकीयं, न भोक्तव्या परयुवति:, विधातव्यं परिग्रहपरिमाणं, न भोक्तव्यं रजन्यां, प्रवर्तितव्यं दानादौ, परिहरणीयं पिशितलौल्यं, न पातव्यं मदिरादि, ततोऽनेन क्रमेणोत्तरोत्तरगुणप्रतिपत्त्या कर्मशत्रोर्गलपादिकयावाप्यते निरतिशयं शिवसुखमिति ।
तत: समाकर्ण्य कर्णामृतस्यन्दिनीमिमां सुदर्शनमुनिदेशनां प्रबुद्धा: प्रभूतजन्तवो यथार्ह प्रतिपद्य धर्मं निजस्थानमुपागता:, सापि व्यन्तरी प्रशान्तवैरानुबन्धा प्रबुद्धा, पण्डितापि धात्री देवदत्ता च। सुदर्शनमहामुनिरपि तत्रैवमनेकभव्यसत्त्वोपकारं कृत्वा ततोऽन्यत्र विजहार । चिरं च परिपाल्य सम्पूर्णसंयमराज्यं, प्रबोध्य च प्रबलविपुलकेवलज्ञानपुरस्सरवागंशुजालैरंशुमालीव प्रभूतभव्यपद्माकरान्, समासाद्य शैलेश्यवस्थां, क्षपयित्वा भवोपग्राहिकर्मचतुष्टयं परमानन्दसुखसम्पदास्वादसुन्दरं शिवसदनशिखरमासादितवानिति ।
इमं समाकर्ण्य सुदर्शनस्य, शुद्धस्य शीलस्य महाप्रभावम् । नि:शेषकल्याणकरे ततो जना:, शीले विशुद्ध कुरुतादरं सदा ॥१॥
इति सुदर्शनाख्यानकं समाप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org