________________
अधिकार ११ / श्लोक २५४ / सुदर्शनश्रेष्ठिकथा
२७९
तत: सा व्यन्तरी तस्य, चक्रे वैरानुबन्धतः । उपसर्गान् महाघोरान्, सप्ताहानि निरन्तरम् ॥१३५॥ तस्यापि सहमानस्य, तांश्च मध्यस्थया धिया । वासरे सप्तमे ज्ञान-मुत्पन्नं केवलाभिधम् ॥१३६॥ ततो भक्तिसमाकृष्टाः, समायाता: सुरासुरा: । चक्रिरे केवलज्ञान-महिमां तस्य सन्मुनेः ।।१३७॥ आगतस्तत्र भूयांश्च, पौरो जानपदो जनः । सद्भक्त्या वन्दनार्थाया-ऽनुवृत्त्या कौतुकेन च ॥१३८॥ तत: पद्मासने रम्ये, सुखासीनो मुनीश्वरः । प्रारब्धो देशनां कर्तुं, भव्यसत्त्वसुखावहाम् ॥१३९॥ भो भो भव्या! महाभीम:, संसारोऽयं शरीरिणाम् । नानाविडम्बनाहेतु- नादुःखसमाकुल: ।।१४०॥ नानादुःखौघरूपश्च, नानादुःखानुबन्धकृत् । रागादिमूलनि:शेष-कर्मसन्ताननिर्मितः ।।१४१॥
इह हि नारकतिर्यग्नरामरगतिलक्षणसंसारेऽनेकपुद्गलपरावर्ताचरणचतुरोऽयं जीवो महता क्लेशेन मानुषत्वमासाद्य तत्त्वार्थाश्रद्धानलक्षणमिथ्यात्वग्रहगृहीतविग्रहो न जानाति कार्याकार्य, न लक्षयति भक्ष्याभक्ष्यविशेषं, न निरीक्षते पेयापेयं, नावधारयति गम्यागम्यविभागं, न गणयति सुगुणदोषान्तरमित्येवं च भ्रान्तमनाश्चिन्तयत्यसौ नास्ति परलोकसत्ता, न विद्यत्ते शुभाशुभकर्मणां फलसद्भाव:, न सम्भवति पञ्चभूतातिरिक्त: कश्चिदात्मा, न युज्यते समस्तवस्तुविस्तारवेदी सर्वज्ञः, दूरत एव तदुपदिष्टकष्टानुष्ठानप्राप्योऽपवर्ग इति । तत: परलोकासद्भावादेव दोदूयते चराचरजन्तूनु, जञ्जलप्यते परोपतापकारिवचनानि, जरीगृह्यते रारट्यमानानां परेषां धनानि, बोभुज्यते परकलत्राणि, बोभूयतेऽपरिमितधनकनकलम्पटैः, आस्वादयेनितरां मांसानि, पिबत्यतिशयेन मांसरसमदिरादिकं, न जिघृक्षति मुमुक्षुभिक्षूपदेशं, तत: संचिनोति ज्ञानावरणादिक्लिष्टकर्मकदम्बकं, पतति तत्परवशतया घोरान्धकारनरकेषु, तत्र च पतितो विपाट्यते तीक्ष्णकरपत्रैः, आरोप्यते वज्रकण्टकनिचितशाल्मलीष. पच्यते कुम्भीपाकेन, पाय्यते तप्तं त्रपु, भोज्यते स्वशरीरोत्कर्तितपिशितानि, तार्यते क्वथितपूयरुधिरादिजम्बालपूर्णां वैतरणी, छिद्यते पूर्वभवोपात्तकर्मवायुप्रेरितैरसिचक्रकुन्तादिप्रहरणैरसिपत्रवनेष्विति । तत: पीडानुगतो हा मातर्हा भ्रातस्त्रायध्वं त्रायध्वमिति करुणमाक्रोशति, न चासौ तत्र त्रातारमाप्नोति । ततोऽपि कथञ्चिदुद्धृत: [स] तिर्यक्त्वमासादयति, तत्रापि वाह्यते पृष्टारोपितं क्रन्दन्महाभारं, भक्ष्यते स्वशरीरोद्भवैः कृमिजालैः, पीड्यते क्षुत्पिपासाशीतोष्णाद्युपद्रवशतैरिति । तस्मादपि कथञ्चिन्निर्गतो यद्यवाप्नोति मनुष्यभावं, तत्रापीष्टवियोगानिष्टसम्प्रयोगादिजनितैः सन्तापैस्तापितशरीरो न लभते धृति, कार्यते प्रेष्यादिकं, कदर्थ्यते जराविकारैः, मार्यते परधनहरणादि कुर्वनधन्यतया, आक्रम्यते काशशोषभगन्दरकुष्ठज्वरादिरोगै:, उन्मूल्यते कतिपयदिनमध्ये समवर्तिना । ततो रूढितबहुकर्मतया कथञ्चिदवाप्तामरभावोऽप्याज्ञाप्यते पुरन्दरादिभिः, क्षीयते प्रचुरापरर्द्धिदर्शनेन, जीर्यते पूर्वजन्मकृतप्रमादस्मरणेन, पीड्यते भविष्यद्भवगर्भसम्भवचिन्तनेन, इत्येवं पर्यालोच्यमानं न किञ्चित्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org