________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
1
अभयापि यथाशक्त्या, रजनीं सकलामपि । क्षोभयामास नैवासौ, क्षुभितश्च मनागपि ॥ १०६ ॥ प्रभाते च निजो देहः, पाटितो नखकोटिभिः । पूत्कर्तुं च समारेभे, महद्भिर्भूरिनिःस्वनैः ॥१०७॥ यथैष मां बलादेव, कामयते सुदर्शनः । दारयति नखाग्रैश्च शीघ्रं धावत धावत ॥ १०८ ॥ श्रुत्वेदं तत्र वेगेन, समायातो महीपतिः । पप्रच्छ तं प्रयत्नेन, वृत्तान्तः क एष इति ॥१०९॥ सोऽपि संशुद्धचित्तत्वा-न्मनागपि न भीतवान् । निष्प्रकम्प: शुभध्यान:, स्वप्रतिज्ञां लुलोप न ॥ ११० ॥ न ददावुत्तरं किंचि - ततो रुष्टेन भूभुजा । वध्यत्वेन समादिष्टो यथास्य छिद्यतां शिरः ||१११॥ राजादेशाद् गृहीतोऽसौ, पुम्भिर्नगररक्षकैः । गाढं विडम्बयित्वा च पुर्या मध्ये समन्ततः ॥११२॥ पश्चात्पितृवने नीत्वा, वध्यदेशे निवेश्य च । वाहितः कण्ठदेशेऽस्य, खड्गो नगररक्षकैः ॥ ११३ ॥ देवतायाः प्रभावेन, स प्रहारोऽसिसम्भवः । शोभां च कुर्वती कण्ठे, सञ्जाता पुष्पमालिका ॥ ११४ ॥ पुष्पगन्धोदवृष्टिश्च प्रपपात नभःस्थलात् । सञ्जनितजनाश्चर्य:, सञ्जज्ञे देवतागमः ॥ ११५ ॥ आकर्ण्येदं ततो राजा, समारुह्य महागजम्। संयुक्तो भूरिलोकेन, शीघ्रं तत्र समागतः ॥११६॥ पतितः पादयोस्तस्य, क्षामितश्च मुहुर्मुहुः । हस्तिस्कन्धं समारोप्य, नगर्यां च प्रवेशितः ॥ ११७ ॥ सम्पूजितश्च वस्त्राद्यै-र्नरेन्द्रेण सुदर्शनः । पुरे देशे च सर्वत्र, साधुवादमवाप च ॥११८॥ लोकैः संस्तूयमानश्च, जगाम निजमन्दिरे । कुटुम्बसुस्थतां कृत्वा, चैत्यादिपूजनं तथा ॥ ११९॥ राज्ञा स्वजनलोकैश्च, वार्यमाणोऽपि वीरधीः । संवेमादाददे दीक्षां, गीतार्थगुरुसन्निधौ ॥१२०॥ अथ सुदर्शनश्रेष्ठि-प्रभावं विश्वविश्रुतम् । समाकर्ण्याभयादेवी, भयसम्भ्रान्तमानसा ॥१२१॥ आत्मानं दृढमुद्वद्ध्य, तत्क्षणं सा मृता सती । जाता पाटलिपुत्रस्य, श्मशाने व्यन्तरी किल ॥ १२२ ॥ नरनाथभयोत्त्रस्ता, तथा धात्र्यपि पण्डिता । चम्पापुर्या विनिर्गत्य, पाटलिपुत्रमगच्छत ॥१२३॥ देवदत्ताभिधानाया, वेश्याया गृहमाश्रिता । ततः सा देवदत्तायाः स्ववृत्तान्तं न्यवेदयत् ॥ १२४॥ एवमाख्यायमानासौ, प्रत्यहं तत्तदग्रतः । यावत् सुखेन तत्रास्ते, तावदन्यत्र वासरे ॥१२५।। अथ सोऽपि महासत्त्व, मुनिः सुदर्शनाभिधः । तप: शोषितसर्वाङ्गो, विहरन् मेदिनीतले ॥ १२६ ॥ तत्रैव च समायातः, क्रमेण वरपत्तने । शान्तमूर्तिर्लसत्कीर्तिः, सद्वृत्तो मुनिसत्तम: ॥१२७॥ आगमोक्तविधानेन, भिक्षार्थं पर्यंटन्नसौ । प्रविलोकितस्तया धात्र्या, देवदत्तासमेतया ॥ १.२८ ॥ कथितं च यथा सोऽयं, भगवान् श्रीसुदर्शनः । ततस्तं देवदत्तापि, क्षणं वीक्ष्य सुविस्मिता ॥ १२९ ॥ चेटिकां प्रेषयामास, तदानयनहेतवे । गत्वा तदन्तिके सापि, नत्वा तं प्रति भाषते ॥ १३० ॥ यथा भो एहि मद्रे, भिक्षामादत्स्व सन्मुने ! । सोऽप्यायातस्ततस्ताभिर्गेहमध्ये प्रवेशितः ॥ १३१ ॥ दत्त्वा द्वारं च गेहस्य, क्षोभितः सकलं दिनम् । नानाप्रकारचेष्टाभिः प्रकामं देवदत्तया ॥१३२॥ सशृङ्गारैः सकामैश्च, जल्पितेक्षितचेष्टितैः । न शशाक च तं सर्वै:, क्षोभितुं कामशास्त्रगैः ॥१३३॥ ततो रात्रौ स चेटीभि-स्त्यक्तो नीत्वा श्मशानके । सोऽपि विशुद्धभावस्थः, कायोत्सर्गेण संस्थितः । १३४।
२७८
Jain Education International
9
For Private & Personal Use Only
,
www.jainelibrary.org