________________
अधिकार ११ / श्लोक २५४ / सुदर्शनश्रेष्ठिकथा
२७७
एवं च क्रमशस्तासां, गच्छन्तीनां सुलीलया। पप्रच्छ कपिलादेवी, कस्येयं वरगेहिनी ॥७८॥ श्रेष्ठिसुदर्शनस्येयं, प्रियास्ति हि मनोरमा । इत्यादि कथिते देव्या, कपिला चाप्यभाषत ॥७९॥ अहो वणिगिणीनां तु, कीदृशं पश्य कौशलम् । या नपुंसकजन्याऽपि, 'जनयत्येवमात्मजान् ।।८०॥ अभया प्राह हे मुग्धे !ज्ञातं कथमिदं त्वया। सापि पूर्वं स्ववृत्तान्तं, समाख्याति तदग्रतः ।।८१॥ ततोऽभया वदत्येवं, सहसा कपिलां प्रति । मूर्खाणामपि मूर्खा त्वं, मुग्धानामपि मुग्धका ॥८२॥ सत्यं डोडगिणी चैव, कामशास्त्रविवर्जिता । ययैतदपि न ज्ञातं, प्रसिद्ध जगतीतले ।।८३॥ अयं हि परकीयासु, महिलासु नपुंसकः । सर्वदापि न तु स्वेषु, दारेषु मनुजोत्तमः ॥८४॥ तद्भद्रे ! वञ्चितासि त्वं, छलात्तेन महात्मना । तत: कपिलयाभाणि, सख्यहं तावदीदृशी ॥८५॥ कामशास्त्रसुनैपुण्य-कलाकौशलवर्जिता । स्वामिनि ! तादृशी चाहं, विज्ञाता यादृशी त्वया ॥८६।। त्वं पुन: सर्वविज्ञान-कामशास्त्रविशारदा । कुशला सर्वकार्येषु, दक्षा सर्वकलास्वपि ।।८७॥ जानामि यद्यमुं स्वामि-न्येकदापि सुदर्शनम् । रमयसे तदा त्वं तु, लोके पण्डितपण्डिता ॥८८॥ श्रुत्वेदमभयादेवी, साक्षेपं प्रत्यभाषत । रमये यद्यहं नैनं, तदास्मि ब्रह्मचारिणी ॥८९॥ इत्थं विधाय सा गर्वं, प्रतिज्ञामतिदुर्वहाम् । गतोद्याने यथाकामं, सङ्क्रीड्य गृहमागता ॥९०॥ ततश्च पण्डिता नाम, स्वधात्री भणिता तया । भद्रे! तथा कुरु शीघ्रं, शीघ्रं सर्वप्रयत्नतः॥९१।। सुदर्शनेन मे साधु, सङ्गमो जायते यथा । तयोक्तं च यथा पुत्रि!, न त्वया सुन्दरं कृतम् ॥९२।।। यतोऽसौ दृढसम्यक्त्व:, सुश्रावको दृढव्रतः । सदा स्वदारसन्तुष्टः, कथं त्वां कामयिष्यति ?||९३॥ कथं चेह स आनेय, पुत्रीदमतिदुष्करम् । ततो देव्याभिधाय्येवं, प्रतिज्ञेयं मया कृता ॥१४॥ समं कपिलभट्टिन्या, निर्वोढव्या यथा तथा । अत: कर्तव्यमेवेदं, निर्विचारं त्वयाम्बिके !॥९५॥ आख्यातुमपि नान्यस्मै, शक्यतेऽदस्त्वया विना । तत: सा क्षणमेकाग्रा, चिन्तयित्वा च मानसे॥९६॥ ब्रूते यथैककस्ताव-न्मयोपाय: समीक्षित: । तयोक्तमम्ब ! कीदृक्ष:, सा प्राह शृणु पुत्रिके ! ॥९७। अयं हि पौषधं पूर्णं, कुरुते पर्ववासरे । कायोत्सर्गेण रात्रौ तु, तिष्ठति चत्वरादिषु ॥९८॥ तद्वत्से ! तत्र गत्वाहं, चेटिकावृन्दसंयुता। तिष्ठन्तं मूकभावेन, वस्त्रैः संवेष्टय सर्वतः ॥९९॥ द्वारपालांश्च वञ्चित्वा, कन्दर्पप्रतिमाच्छलात्। तमुत्पाट्य तत: स्थाना-दानयामितवान्तिकम्॥१००॥ एवं विधीयतां मात-र्देव्या प्रत्युदिते सति । पस्तावमीक्षमाणासौ, नित्यं तिष्ठति पण्डिता ॥१०१॥ अन्यदा चाष्टमीरात्रौ, कायोत्सर्गे व्यवस्थितः । वीक्षितो हट्टमार्गेऽसौ, तया श्रेष्ठी सुदर्शन: ॥१०॥ नानाविधसुरार्चानां, नयनानयनच्छलात् । मदनप्रतिबिम्बस्य, व्याजेनासौ प्रवेशितः ॥१०३॥ अन्त:पुरे ततो हृष्टा-भयादेवी समीक्ष्य तम् । क्षोभितुं च समारब्धा, सामतो दण्डतस्तथा ॥१०४॥ गृहीत्वा सोऽपि साकारं, प्रत्याख्यानं विशेषत: । धर्मध्याने महासत्त्वो बभूवं सुविनिश्चलः ॥१०५॥ १ तनयन्त्येव JCH
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org