________________
२७६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
सर्वज्ञशासनात्यन्त-प्रेमरागेण भूयसा । सुतरां रक्ततां नीता, यस्यास्थिमिञ्जिका अपि ॥४९॥ अन्तरङ्गमहाशत्रु-सैन्यसन्त्रासकारकम् । सुदर्शनं समं लक्ष्म्या , विष्णुरिव दधार यः ॥५०॥ यश्च द्वादशधा धर्मं, सुश्रावकनिषेवितम् । सम्पूर्ण सर्वदा चक्रे, निष्कलङ्कं कृतादरः ॥५१॥ स इत्थं सुन्दराचार:, सुशील: प्रियभाषक: । राजादीनां महामान्य:, परां ख्यातिमवाप्तवान् ॥५२॥ तस्य भार्यापि जैनेन्द्र-धर्मरत्नविभूषिता । न नाम नामधेयेन, वपुषापि मनोरमा ॥५३॥ यस्या मनोरमं शीलं, दाक्षिण्यं सुमनोरमम् । मनोज्ञाश्च दयादान-सद्विवेकादिका गुणा: ॥५४॥ सापि सद्धर्मकर्माणि, विदधे सर्वयत्नतः । सर्वज्ञशासने रक्ता, सक्ता साधुजनार्चने ॥५५॥ सुदर्शनस्य सन्मित्रं, बभूव कपिलाभिधम्। षट्कर्मा शुचिसमाचारो, नृपतेश्च पुरोहित: ॥५६॥ कपिला नाम तद्भार्या, रूपयौवनगर्विता । स्त्रीजनोचितविज्ञान-चतुरा चतुरानना ॥५७।। अन्यदा वर्णितो बाढं, कपिलेन तदग्रत: । सुदर्शनगुणग्राम-श्चानुरूपादिकोऽखिलः ॥५८॥ कपिलापि समाकर्ण्य, तद्रूपादिगुणश्रियम् । दृढं जातानुरागा च, दिदृक्षति सुदर्शनम् ॥५९॥ अन्यदा प्रेषिता धात्री, श्रेष्ठिनो मन्दिरे तया । मम वाक्येन गत्वैवं, प्रभणैवं सुदर्शनम् ॥६०॥ यथाद्य तव मित्रस्य, शरीरापाटवं दृढम् । तद्विलम्ब विना तत्र, श्रेष्ठिन्नागम्यतामिति ॥६१॥ गत्वा तस्मै तया सर्वं, तथैव च निवेदितम् । सुदर्शनोऽपि वेगेन, मित्रमन्दिरमागत: ॥६२॥ पप्रच्छ कपिलां श्रेष्ठी, भट्टः कुत्रावतिष्ठते । तयोदितं गृहस्यास्य, मध्ये सुप्त: प्रतिष्ठते ॥६३॥ भवानपि च तत्रैव, समागच्छतु सत्वरम् । इत्युक्ते गतवान् सोऽपि, न च पश्यति तत्र तम् ॥६४॥ पृष्टा सा तेन भद्रेऽसौ, ब्राह्मण: किं न दृश्यते ? । ततस्तस्मै समग्रोऽपि, सद्भाव: कथितस्तया॥६५।। यथाहं तव रूपादि-गुणानाकर्ण्य सुन्दरान् । तव दर्शनमिच्छन्ती, कष्टं तस्थावियच्चिरम् ॥६६॥ साम्प्रतं यदि नैव त्वं, मामिच्छसि दयापर ! । मदनानलसन्तप्ता, मरिष्यामि तवाग्रतः ॥६७॥ निर्वापयस्व मे देहं, सङ्गमामृतवारिणा । यावत्कामहुताशेन, भस्मतां नीयते न हि ॥६८॥ तेनोक्तमयि मुग्धासि, भद्रे !किं न श्रुतं त्वया । यथाहं नरवेषेण, बम्भ्रमीमि नपुंसकः ॥६९॥ आकर्येदं विरक्ता द्राक्, ब्रूते सा लज्जिता सती । यदेवं गम्यतां गेहे, क्षन्तव्यो मम दुर्नयः ॥७०॥ स आत्मानं विमोच्यैवं, जगाम निजमन्दिरम् । ततोऽचिन्ति च कीदृक्षे, सङ्कटे पतिता वयम् ॥७१॥ गन्तव्यं परगेहेषु, न मयातिप्रयोजनम् । गत्वापि नैवमेकान्तं, प्रवेष्टव्यं कदाचन ॥७२॥ अन्यदा च महाभूत्या दातृवाहनभूपति: । गत: क्रीडितुमुद्याने, समं सामन्तमन्त्रिभिः ॥७३॥ सुदर्शनादिभि: पौर-भूरिलोकै: समन्वित: । द्विजैश्च शान्तिकर्मज्ञैः, प्रभूतैः कपिलादिभिः ।।७४॥ तदनु प्रस्थिता गंतुं, कपिलाब्राह्मणीयुता । रथारूढाभयादेवी, विभूत्या सपरिच्छदा ॥७५॥ मनोरमापि सश्रीक-सालङ्कारविशालिनी । सालङ्कारैः समं पुत्रै-श्चतुर्भिः सुमनोहरैः ॥७६॥ मनोहारिरथारूढा, मनोहारिपरिच्छदा। सञ्जनितजनाक्षेपा, प्रतस्थे गन्तुमञ्जसा ॥७७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org